Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

अभ्यासः

I. अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त। गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्रनिर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारित कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोत: सदर्पमाह-आः! किमेवमुच्यते।

वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्

एतदाकये सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन्। यतो हि-बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते।

प्रश्न 1.
एकपदेन उत्तरत –

(क) आपत्काले केषां वचनं ग्राह्यम्?
उत्तर:
वृद्धाणाम्

(ख) विशाल: शाल्मलीतरुः कुत्रसीत?
उत्तर:
गोदावरीतीरे

(ग) व्याधः कान् विकीर्य प्रच्छन्नो भूत्वा स्थितः?
उत्तर:
तण्डुलान्

(घ) सर्वथा कीदृशं कर्म न कर्तव्यम्?
उत्तर:
अविचारितम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) कपोतराजः कान् प्रत्याह?
उत्तर:
तण्डुललुब्धान् कपोतान् प्रत्याह।

(ख) के कदा क्लिश्यन्ते?
उत्तर:
बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते।

प्रश्न 3.
भाषिककार्यम् –

(क) ‘विशाल: शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम्?
उत्तर:
विशाल:

(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत।
उत्तर:
आह

(ग) ‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपद चित्वा लिखत।
उत्तर:
दक्षिणः

(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
तरुणः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
लोभः न कर्तव्यः।

II. समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिक: महत्त्वपूर्णः मूल्यवान् च वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लघु शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते। जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थक समयं यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्य कुर्वन्ति। न धर्मम् आचरन्ति न धनम् उपार्जन्ति, तेषां जन्म निरर्थकं भवति। भूमिरपि एतादृशानां निष्क्रियाणां भार वोदू नेच्छिति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति। ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते। पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः।

प्रश्न 1.
एकपदेन उत्तरत –

(क) पितरौ एतादृशान् कान् नाभिनन्दतः?
उत्तर:
तनयान्

(ख) क: विनष्टः परावर्तयितुं न शक्यते?
उत्तर:
समयः

(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
उत्तर:
भूमिः

(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः?
उत्तर:
आलस्यम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) केषां जन्म निरर्थकं भवति?
उत्तर:
अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थक समय यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्यं कुर्वन्ति। न धर्मम् आचरन्तुि, न धनम् उपार्जन्ति, तेषा जन्म निरर्थकं भवति।

(ख) अन्येषां वस्तुनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
उत्तर:
समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिक: महत्त्वपूर्णः मूल्यवान् च वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धुं शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते।

प्रश्न 3.
भाषिककार्यम् –

(क) ‘यावान् काल: निरर्थकः गतः सः गतः एव’ इति वाक्ये अव्ययपदं किम् इति चित्वा लिखत।
उत्तर:
एव

(ख) ‘सदुपयोगः’ इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
दुरुपयोगः

(ग) अनेके जनाः’ इत्यस्य विशेष्यपदं किम्?
उत्तर:
जनाः

(घ) ‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
उत्तर:
तनयान्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षक दीयताम्।
उत्तर:
समयस्य सदुपयोगः

III. जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्र धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समयः गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नी चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! कि जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्य करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रो: सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्।

प्रश्न 1.
एकपदेन उत्तरत –

(क) धनेश: कयोः सेवायां समयं यापयति स्म?
उत्तर:
पित्रोः

(ख) क: विद्वान् पितृभक्तश्चासौत्?
उत्तर:
धनेशः

(ग) कः धनेशं जीवनस्य अभिप्रायम् अपृच्छत्?
उत्तर:
शिष्यः

(घ) आचार्यस्य नाम किम् आसीत्?
उत्तर:
जयदेवः

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) धनेशस्य समयः कथं गच्छति स्म?
उत्तर:
धनेशस्य समयः पित्रोः सेवायाम् अध्ययने चैव गच्छति सम।

(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यम् किम् उदतरत्?
उत्तर:
प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रोः सेवया एव विज्ञानम्’ इति सूत्र न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) ‘तस्य पुत्रः धनेशः’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
जयदेवाय

(ख) ‘श्रुत्वा’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
उत्तर:
निशम्य

(ग) ‘पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्’ अत्र क्रियापदं चित्वा लिखत।
उत्तर:
आस्ताम्

(घ) ‘मातुः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
पितुः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
पितुः भक्तः धनेशः, पित्रो: सेवया एव विज्ञानम्

IV. अमर्त्य सेनः इति नाम एव संस्कृतमयम्। अस्य जन्म शान्तिनिकेतने अभवत्। शान्तिनिकेतनस्य संस्थापक: गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्-‘अमर्त्यसेनः इत्येतत् पद संस्कृत मूलम्। शान्तिनिकेतने वसन् अमर्त्य सेनः संस्कृताभ्यास कृतवान् सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थ स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्। अध्यापन-कार्य समाप्य श्रीअमर्त्यसेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विद्वत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मान दत्तवान् जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च।

प्रश्न 1.
एकपदेन उत्तरत –

(क) अमर्त्य सेनस्य जन्म कुत्र अभवत्?
उत्तर:
शान्तिनिकेतने

(ख) अमर्त्यसेनाय ‘भारतरत्नम्’ इति सम्मान क: दत्तवान्?
उत्तर:
भारत-सर्वकारः

(ग) अमर्त्यसेनः उच्चशिक्षार्थं कुत्र अगच्छत्?
उत्तर:
आंग्लदेशम्

(घ) अमर्त्य सेनः कुत्र संस्कृताभ्यासं कृतवान्?
उत्तर:
शान्तिनिकेतने

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) अमर्त्य सेनस्य नामविषये रवीन्द्रनाथः ठाकुर किम् उक्तवान्?
उत्तर:
‘अमर्त्य सेनः’ इत्येतत् पदं संस्कृत-मूलम्।

(ख) अध्यापनसमये सः किं कृतवान?
उत्तर:
अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) ‘अस्य जन्म शान्तिनिकेतने अभवत्।’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
श्री अमर्त्यसेनाय

(ख) ‘अमर्त्यसेनः संस्कृताध्यासं कृतवान्। गद्यांशेऽस्मिन् कर्तृपद चित्वा लिखत।
उत्तर:
श्री अमर्त्य सेनः

(ग) ‘अगच्छत्’ इति क्रियापदस्य किं विलोमपदम् अत्र पयुक्तम्?
उत्तर:
प्रत्यावर्तत

(घ) ‘महतीं गवेषणाम्’ अत्र विशेषणपदं किम्?
उत्तर:
महतीम्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षक दीयताम्।
उत्तर:
संस्कृतपुत्रः अर्थशास्त्री भारतरत्नम् च श्री अमर्त्यसेनः

V. विगतसप्ताहे अस्माकं विद्यालयपक्षतः शैक्षणिकयात्राप्रसने वयम् उज्जयिनी प्रति अगच्छामा उज्जयिनीं भारतस्य इतिहास धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रम् अस्ति। अत्र स्थितस्य महाकालेश्वरस्य कारणेनापि अस्याः विशिष्ट महत्त्वम्। एषा अवन्तिका, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णशृंगा इति नामभिरपि शास्त्रेषु वर्णिता। अत्रत्या वेधशालाऽपि अतिविशिष्टा। जनाः वेधशाला ‘यन्त्रभवनम्’ इत्यपि वदन्ति। इयम् आंग्लभाषायाम् ‘आब्जर्वेटरी’ इत्यपि कध्यते। शैक्षणिकयात्राप्रसंगात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्। एषा वेधशाला उज्जयिन्याः दक्षिणभागे क्षिप्रायाः उत्तरतटे उन्नतभूभागे स्थिताऽस्ति। कर्करेखा इतः एव निर्गता। इदं स्थानं गणितस्यापि अधारस्थलम्। अष्टादशशताब्या राज्ञा जयसिंहेन ज्योतिषानुरागवशात् वेधशालायाः निर्माण कारितम्। ग्रहाणां प्रत्यक्षवेधनाय जयसिंह उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मधुरायां च वेधशालानां निर्माणम् अकारयत्। वस्तुतः वेधशाला वीक्ष्य मनसि गौरवमनुभवामि यत् प्राचीनकालेऽपि अस्माकं पूर्वजानां गणितस्य ग्रहनक्षत्राणाञ्च ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्।

प्रश्न 1.
एकपदेन उत्तरत –

(क) वेधशाला कस्याः उत्तरतटे स्थिता अस्ति?
उत्तर:
क्षिप्रायाः

(ख) विद्यालयपक्षतः वयं कुत्र अगच्छाम?
उत्तर:
उज्जयिनीम्

(ग) वेधशालायाः एकम् अपरं नाम लिखत?
उत्तर:
यन्वभवनम्

(घ) वेधशाला कास्य आधारस्थलम्?
उत्तर:
गणितस्य

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) जयसिंहः कुत्र-कुत्र वेधशालानां निर्माणम् अकारयत्?
उत्तर:
जयसिंहः उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्।

(ख) उज्जयिनी केषां केन्द्रम् वर्तते?
उत्तर:
उज्जयिनी भारतस्य इतिहास-धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रम् अस्ति।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) ‘दृष्ट्वा’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तर:
वीक्ष्य

(ख) ‘उत्तरभागे’ इति पदस्य विपरीतार्थपदम् अनुच्छेदात् चित्वा लिखत।
उत्तर:
दक्षिणभागे

(ग) ‘शैक्षणिकयात्राप्रसङ्गात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्’-अत्र ‘अस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तर:
वेधशालायै

(घ) ‘अस्माकं पूर्वजानां ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्’ इत्यस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर:
ज्ञानम्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षक दीयताम्।
उत्तर:
उज्जयिन्याः वर्णनम्/उज्जयिन्याः यात्रावर्णनम्

VI. पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति। नवतिः एकड-परिमित बृहदाकारकम् इदमुपवनम्। अत्र शताधिक वर्षेभ्यः प्राचीनाः पादपाः सन्ति। तेषु वटवृक्षः अश्वत्थः निम्ब: किंशुक: आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति। प्रतिदिन सहस्रशः जनाः अत्र विहाराय आगच्छन्ति। लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति। इदम् उपवनम् चतुर्भागेषु विभिक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्याणां शोभा दर्शकानां मनः प्रसादयति। मधुगन्धिनः भ्रमराः पुष्पेषु उडयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति। अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति। अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति। कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव।

प्रश्न 1.
एकपदेन उत्तरत –

(क) ‘लोधीगार्डन’ इति उपवनम् कति भागेषु विभक्तम्
उत्तर:
चतुर्पु (चतुर्भागेषु)

(ख) भ्रमराः कुत्र उड्डयन्ते?
उत्तर:
पुष्पेषु

(ग) रुग्णाः जनाः किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति?
उत्तर:
भ्रान्त्वा

(घ) केषां शोभा दर्शकानां मनः प्रसादयति?
उत्तर:
पुष्पाणाम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) ‘लोधी-गार्डन’ इति नामके उपवने के प्रमुखाः वृक्षाः सन्ति?
उत्तर:
‘लोधी-गार्डन’ इति नामके उपवने वटवृक्षः अश्वत्थः निम्बः किंशुकः आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः विल्वः अर्जुन: च प्रमुखा: वृक्षाः सन्ति।

(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि लिखत। उत्तर: पुष्पारामे उपलब्धानां मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा ।
उत्तर:
यूथिका च सन्ति।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।
उत्तर:
नवतिः

(ख) ‘मधुगन्धिनः भ्रमराः’ अत्र किं विशेषणपदं प्रयुक्तम्?
उत्तर:
मधुगन्धिनः

(ग) ‘स्वस्थाः इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
रुग्णाः

(घ) ‘सहस्रशः जनाः भ्रमणाय आगच्छन्ति’ अत्र कर्तृपदं किम्।
उत्तर:
जनाः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘लोधी गार्डन’, ‘देहल्याः प्रसिद्धम् उपवनम् लोधी गार्डन’

VII. अम्ब अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदं वचः निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानुजः क्रीडनाय बहिर्गच्छति स्म तदा अहं स्वपितृभ्यां गृहकार्यार्थ पठनार्थ चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाहे शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्। परमद्यापि एका कुण्ठा मनसि यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शनं कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्य: नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। कः दोषः असीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्। अस्तु तावत्! चिन्तयाऽलम्। अहं पुत्र्यै तादृश्यः सर्वाः सुविधाः अवश्यमेव प्रदास्यामि येन तस्याः मनसि एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्।

प्रश्न 1.
एकपदेन उत्तरत –

(क) रमा काभ्यां गृहकार्यार्थं पाठनार्थं च प्रेरिता?
उत्तर:
स्वपितृभ्याम्

(ख) रमा कस्यै सर्वाः सुविधाः प्रदास्यति?
उत्तर:
पुत्र्यै

(ग) रमायाः पुत्री केन सह क्रीडितुं बहिर्गच्छति?
उत्तर:
अनुजेन (देवेशेन)

(घ) रमा कास्य निर्वाहे श्रेष्ठा अभवत्?
उत्तर:
गृहस्योत्तरदायित्वस्य

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) पुत्र्याः किं वचः निशम्य रमा स्वशैशव प्राप्ता?
उत्तर:
“अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया।”

(ख) रमायाः मनसि यदा कदा कीदृशी कुण्ठा जायते?
उत्तर:
यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शन कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्यः नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। कः दोषः असीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) ‘एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्’-अत्र किं विशेष्यपदम्?
उत्तर:
कुण्ठायाः

(ख) ‘मत्सदृश्य: नार्यः’ वायुयानं चालयन्ति “इति वाक्ये किं कर्तृपदम्?
उत्तर:
नार्यः

(ग) ‘द्वार पिधेहि कृपया’ अत्र किं क्रियापदम्?
उत्तर:
पिधेहि

(घ) ‘अस्तु तावत्’ अनयोः पदयोः किम् अव्ययपदम्?
उत्तर:
तावत्

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
रमायाः कुण्ठा/रमायाः मनसः कुण्ठा

VIII. नकुलः प्रतिदिन प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्व दृष्ट्वा आहती भवतः। पुत्रं बेधवितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि शृणोति। एकदा पुत्र प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्या सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातु: एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मा मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्द मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात्। मातः। कर्तव्याकर्तव्यमपि विस्मृतं मया। दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्-‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातः वात्सल्यमयेन बोधनने नकुलः दुर्जनसंसर्ग त्यक्तुं दृढनिश्चयं करोति।

प्रश्न 1.
एकपदेन उत्तरत –

(क) ‘धिङ् मम जीवितम्’ इति का वदति?
उत्तर:
माता

(ख) को आहतौ भवतः?
उत्तर:
पितरौ

(ग) माता पुत्रं किं तयक्तुम् अकथयत्?
उत्तर:
दुर्जनसंसर्गम्

(घ) नकुलः मित्राणि प्रति किं वक्तुमिच्छति स्म?
उत्तर:
‘न’ इति

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) नकुलः मित्रैः सह किं किं करोति स्म?
उत्तर:
नकुलः मित्रैः सह धूम्रपान, मद्यपानं च करोति स्म।

(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति?
उत्तर:
स्नेहेन लालयन्ती माता पुत्र बोधयति-त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति’-अत्र किमव्ययपदम्?
उत्तर:
अद्यत्वे

(ख) ‘साश्रुनयनः पुत्रः वदति’-अत्र किं विशेषणपदम्?
उत्तर:
साश्रुनयनः

(ग) ‘अनेकशः’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
उत्तर: बहुधा

(घ) गद्यांशे ‘शत्रून्’ इति पदस्य किं विलोमपदं प्रयुक्तम्?
उत्तर:
मित्राणि

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
दुर्जन संसर्गस्य दुष्प्रभाव:

IX. एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनि श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तित वृक्षं दृष्ट्वा रुदन्निव वदति स्म, घः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दु:खितोऽहम्। सः तु आपणं गतवान पर न कोऽप्यस्त्यत्र योऽस्य व्रणानामपचार करोतु। किमर्थ विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रवणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दुर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्त भविष्यति। इदं सर्व श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्।

प्रश्न 1.
एकपदेन उत्तरत –

(क) काष्ठहारः किं श्रुत्वा तिष्ठति?
उत्तर:
वृक्षध्वनिम्

(ख) वृक्षस्य वार्ता श्रुत्वा काष्ठहारः कीदृशः अभवत्?
उत्तर:
खिन्नमनः

(ग) काष्ठहारः काष्ठानि नीत्वा कुत्र गतवान्?
उत्तर:
आपणम्

(घ) वृक्षाः कस्य शुद्धीकरणाय भवन्ति?
उत्तर:
वायोः

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) वृक्षः किमर्थं दुःखितः आसीत्?
उत्तर:
वृक्षः काष्ठहारेण छिन्नशरीरस्य वृक्षस्य व्रणान् दृष्ट्वा दुःखितः आसीत्।

(ख) वृक्षाणां कर्तनेन केषां महत्त्वं विलुप्तं भविष्यति?
उत्तर:
वसन्तादीनां ऋतूणां महत्त्वमपि विलुप्तं भविष्यति।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) ‘वृक्षः समीपस्थं वृक्षं दृष्ट्वा रुदन्निव वदति’-अस्मिन् वाक्ये किं विशेषणपदम्?
उत्तर:
समीपस्थम्

(ख) ‘आश्रिताः’ इति पदस्य कृते किं विलोमपदम् अनुच्छेदे प्रयुक्तम्?
उत्तर:
निराश्रिताः

(ग) ‘विलोक्य’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तर:
दृष्ट्वा

(घ) ‘ह्यः एकः काष्ठहार: मम मित्रस्य शरीरमच्छिनत्’-अत्र किम् अव्ययपदम्।
उत्तर:
छः

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
वृक्षाणां महत्त्वम्

X. विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति-चलभाषियन्त्रम् (मोबाइल इति।) अस्य मुख्य प्रयोजनमासीत् दूरवर्तिना केनापि जनेन सह वार्तालापः सुकरः भवेत् इति। परमद्यत्वे तु चलभाषियन्त्र लघुसङ्गणकमिव वर्तते। एवं प्रातीयते यत् जनाः हस्ते एक सम्पूर्ण जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्ता कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि। ईमेल-फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकर संदेशवाहकमपि। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति। न केवलमेतदेव अपितु एतत् यन्त्र मनोरञ्जनकारि अपि। बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति। परमेतदपि विचारणीयं यस्य अधिकाधिक प्रयोगः हानिकरः भवति। ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः।

प्रश्न 1.
एकपदेन उत्तरत –

(क) किम् अतीव सुकर सन्देशवाहकम्?
उत्तर:
चलभाषियन्त्रम्

(ख) जनाः वार्तया सह साक्षात् कं पश्यन्ति
उत्तर:
वक्तारम्

(ग) किं प्राप्य जनाः स्वगन्तव्यं प्राप्नुवन्ति?
उत्तर:
वाहनम्

(घ) अस्य अधिकाधिकप्रयोगः कीदृशः भवति?
उत्तर:
हानिकरः

प्रश्न 2.
पूर्णवाक्येन उत्तरत –

(क) अस्य मुख्यं प्रयोजन किमासीत्?
उत्तर:
अस्य मुख्य प्रयोजनमासीत् दूरवर्तिना केनापि जनेन सह वार्तालाप: सुकरः भवेत् इति।

(ख) ‘केनापि जनने सह वार्तालाप: सुकरः भवेत्, इत्यत्र किं विशेषणपदम्?
उत्तर:
बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति।

प्रश्न 3.
यथानिर्देशम् उत्तरत –

(क) ‘लब्वा’ इत्यर्थे किं पदं गद्यांशेऽस्मिन् प्रयुक्तम्?
उत्तर:
प्राप्य

(ख) ‘केनापि जनेन सह वार्तालाप: सुकरः भवेत्’ इत्यत्र किं विशेषणपदम्?
उत्तर:
केन, सुकरः

(ग) ‘अस्य यथावश्यकं प्रयोगः एव करणीयः’ इति अत्र किं क्रियापदम्?
उत्तर:
करणीयः

(घ) ‘चलभाषियन्त्र’ लघुसङ्गणकमिव वर्तते’ इति अत्र किम् अव्ययपदम्।
उत्तर:
इव

प्रश्न 4.
उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
चलदूरभाष यन्त्रस्य महत्त्वम्

Leave a Comment

Your email address will not be published.

Patio umbrellas sold at Costco recalled after reports of fires गर्मी में लू लगने से बचाव करेंगे यह खाद्य पदार्थ, आज ही खाना करें शुरू ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22
ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? गर्मी में लू लगने से बचाव करेंगे यह खाद्य पदार्थ, आज ही खाना करें शुरू Rbse books for class 1 to 12 hindi medium 2021-22 Patio umbrellas sold at Costco recalled after reports of fires