Rbse Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम्

Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
(ग) कुम्भकारः घटान् किमर्थ रचयति?
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तर:
(क) काशीविश्वनाथमन्दिरम्
(ख) त्रिशत/त्रिशतम्
(ग) जीविकाहेतोः
(घ) मोदकानि
(छ) चन्दनः

प्रश्न 2.
पूर्णवाक्येन उत्तरं लिखत –

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
(ख) कालः कस्य रसं पिबति?
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
(घ) मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
उत्तर:
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनु घासादिकं गडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलक धारयतः रात्रौ नीराजनेनापि तोषयतः।
(ख) कालः क्षिप्रमक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।
(ग) पुत्रिके। नाह पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
(घ) मल्लिकया दुग्धहीनताम् दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
(ङ) मासपर्यन्तं धेनोः अदोहनस्य ग्रामप्रमुखस्य गृहे त्रिशत सेटकमितं दुग्धप्रदानस्य लोभः कारणमासीत्।

प्रश्न 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तर:
(क) मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) कानि पूजानिमित्तानि रचितानि आसन्? ।
(घ) मल्लिका स्वपति कीदृशम् मन्यते?
(ङ) का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

प्रश्न 4.
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।

यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति ……….. विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ……….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते …………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ……….. भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ……….. । एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ………… आसीत्।
उत्तर:
क्रमश:- धर्मयात्रायाः
गृहव्यवस्थाये
मङ्गलकामनाम्
कल्याणकारिणः
उत्पादयेत्
समर्थकः।

प्रश्न 5.
घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।
उत्तर:
(क) मल्लिका पूजार्थं मोदकानि रचयति।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिर प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनः उत्सवसमये अधिक प्राप्तुं मासपर्यन्तं दोहन न करोति।
(ङ) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृह प्रत्यागच्छति।
(च) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्न 6.
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

उदाहरणम् – कः/का – कं/काम् स्वामिन् ।
प्रत्यागता अहम्। – आस्वादय प्रसादम्। – मल्लिका – चन्दनं प्रति

(क) धन्यवाद मातुल! याम्यधुना।
(ख) त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।
(घ) पुत्रिके! नाहं पापकर्म करोमि।
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्।
उत्तर:
(क) उमा, चन्दनं प्रति
(ख) चन्दनः, उमा प्रति
(ग) चन्दनः, देवेशं प्रति
(घ) देवेशः, मल्लिका प्रति
(ङ) चन्दनः, मल्लिका प्रति।

प्रश्न 7.
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

(क) शिवास्ते – ………….. + …………….
(ख) मनोहरः – ………….. + …………….
(ग) सप्ताहान्ते – ………….. + …………….
(घ) नेच्छामि – ………….. + …………….
(ङ) अत्युत्तमः – ………….. + …………….
उत्तर:
(क) शिवाः + ते
(ख) मनः + हरः
(ग) सप्ताह + अन्ते
(घ) न + इच्छामि
(ङ) अति + उत्तमः

प्रश्न 7.
(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

(क) करणीयम् – …………. + …………….
(ख) वि + क्री + ल्यप् – ……………………
(ग) पठितम् – …………. + …………….
(घ) ताडय् + क्त्वा – ……………….
(ङ) दोग्धुम् – …………. + …………….
उत्तर:
(क) कृ + अनीयर्
(ख) विक्रीय
(ग) पठ् + क्त
(घ) ताडयित्वा
(छ) दुह + तुमुन्

Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Additional Important Questions and Answers

अतिरिक्तम् कार्यम्

प्रश्न 1.
निम्नलिखितं संवादं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत –

1. (प्रथमं दृश्यम्)
(मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति)
(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।)
चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य ) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम् ) विरम। विरम। मा स्पृश! एतानि मोदकानि।
चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्लानि सन्ति।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. ततः कीदृशः चन्दनः प्रविशति?
  2. मल्लिका कानि अरचय?
  3. मल्लिका मन्दस्वरेण किं करोति स्म?

उत्तर:

  1. प्रसन्नमना
  2. मोदकानि
  3. शिवस्तुति

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. चन्दनः कानि दृष्ट्वा स्वजिह्वालोलुपतां नियन्त्रयितुम् अक्षमः आसीत्?
  2. एतानि मोदकानि कस्याः निमित्तानि सन्ति?

उत्तर:

  1. चन्दन: मल्लिकायाः हस्तनिर्मितानि मोदकानि दृष्ट्वा स्वजिह्वालोलुपत्ता नियन्त्रयितुम् अक्षमः आसीत्।
  2. एतानि मोदकानि पूजायाः निमित्तानि सन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘हस्तनिर्मितानि मोदकानि’ अनयोः पदयोः विशेषणपदं किम्?
  2. ‘कि न जानासि त्वमिदम्’ अत्र वाक्ये क्रियापदं किमस्ति?
  3. संवादे ‘दृष्ट्वा’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तोऽस्ति?
  4. ‘अये मोदकानि रच्यन्ते’ आस्मिन वाक्ये कर्तृपदं किम्?

उत्तर:

  1. हस्तनिर्मितानि
  2. जानासि
  3. विलोक्य
  4. मोदकानि

2. मल्लिका – भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्या. मि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
चन्दनः – सखिभिः सह! न मया सह! (विषावं नाटयति)
मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलायाः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।

(i) एकपदेन उत्तरत (केवल प्रश्नद्वयमेव)

  1. मल्लिका काभिः सह धर्मयात्रां गच्छति?
  2. मल्लिकाया: अनुपस्थितौ गृहव्यवस्था क: परिपालयिष्यति?
  3. सा स्वसखिभिः सह कुत्र गमिष्यति?

उत्तर:

  1. स्वसखिभिः
  2. चन्दनः
  3. काशीविश्वनाथमन्दिरम।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. मल्लिकया सह काशीविश्वनाथमन्दिर प्रति काः गच्छन्ति?
  2. मल्लिका सखिभिः सह तत्र किं करिष्यति?

उत्तर:

  1. मल्लिकथा सह काशीविश्वनाथमन्दिरं प्रति चम्पा, गौरी, माया, मोहिनी, कपिलायाः सर्वाः गच्छन्ति।
  2. मल्लिका सखिभिः सह तत्र गङ्गास्नानं धर्मयात्राज्य करिष्यति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. संवादे ‘गमिष्यामि’ क्रियापदस्य कर्तृपदं कि वर्तते?
  2. संवाद ‘पूजा’ पदस्य कः पर्यायः आगतः?
  3. अत्र संवादे ‘प्रसन्नताम्’ इत्यस्य पदस्य कः विपर्ययः आगतः?
  4. ‘एषा व्यवस्था भवद्भिः करणीया।’ अत्र भवद्भिः इति कर्तृपदस्य कियापदं किमस्ति?

उत्तर:

  1. अहम्
  2. पूजनम्
  3. विषादम्
  4. करणीया

3. चन्दनः – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्ध करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्त: नन्दिन्याः समीपं गच्छति)
उमा – मातुलानि! मातुलानि!
चन्दनः – उमे! अहं तु मातुलः। तव मातुलनी तु गङ्गास्नानार्थ काशीं गता अस्ति। कथय! कि ते प्रियं करवाणि?
उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।
चन्दनः – (प्रसन्नमनसा) त्रिशत-सेटककपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता)

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कीदृशः चन्दनः नन्दिन्याः समीपं गच्छति?
  2. तत्र कति मात्र दुग्धम् अपेक्षते?
  3. कः सर्वमपि परिपालयिष्यति?

उत्तर:

  1. दुग्धपात्रहस्तः
  2. त्रिशत-सेटकमितम्
  3. चन्दनः

(ii) पूर्णवाक्येन उत्तरत (केवल प्रश्नमेकमेव)

  1. मासान्तरम् उमायाः गृहे कः भविष्यति?
  2. धर्मयात्राय का गता?

उत्तर:

  1. मासानन्तम् अस्यत् गृहे महोत्सवः भविष्यति।
  2. मल्लिका तु धर्मयात्रायै गता।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. संवादे ‘त्वया’ इति कर्तृपदस्य क्रियापदं किम्?
  2. “शिवास्ते सन्तु पन्थानः’ अत्र विशेषणपदं किमस्ति?
  3. संवादे ‘मार्गा;’ इत्यस्य पदस्य कः पर्यायः आगतः?
  4. नाट्यांशे ‘दूरम्’ इत्यस्य पदस्य कः विपर्ययः लिखितः?

उत्तर:

  1. वक्तव्यम्
  2. शिवाः
  3. पन्थान:
  4. समीपम्

4. चन्दनः – (प्रसन्नो भूत्वा, अङ्गलिषु गणयन्) अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लपये। (नन्दिनीं दृष्ट्वा ) भो नन्दिनि! तव कृपया तु अहं धनिकः भविष्यामि। (प्रसन्नः सः धेनोः बहुसेवा करोति)
चन्दनः – (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिन दोहन करोमि तर्हि दुग्धं सुरक्षित ङ्केत तिष्ठाि इवाना कि फरशाणा? अवतु नाम मासान्ते सम्पूर्णतया पधवोहम करोमि। (एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति)
मल्लिका – (प्रविश्य) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।(चन्दन: मोदकानि खादति वदति च)
चन्दनः – मल्लिके! तव यात्रा तु सम्यक सफला जाता? काशीविश्वनाथस्य कपया प्रियं निवेदयामि।
मल्लिका – (सा चर्यम्) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्?

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. मासान्त कस्य आवश्यकता भवति?
  2. एवं क्रमेण कानि व्यतीतानि?
  3. चन्दनः कस्याः बहुसेवां करोति?

उत्तर:

  1. दुग्धस्य
  2. सप्तदिनानि
  3. धेनोः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कस्याः कृपया तु चन्दनः धनिको भविष्यति?
  2. दुग्धं कदां सुरक्षित न भविष्यति?

उत्तर:

  1. नन्दिन्याः कृपया तु चन्दनः धनिको भविष्यति।
  2. यदा सः प्रतिदिनं दुग्धदोहनं करिष्यतिर्तदा दुग्धं सुरक्षितं न भविष्यति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘तव कृपया तु अहं धनिकः भविष्यामि।’ अत्र विशेषणपदं किम्?
  2. ‘प्रसन्नः सन् सः धेनोः बहुसेवां करोति’। अत्र वाक्ये कर्तृपदं किम् अस्ति?
  3. संवादे ‘गोः’ इति पदस्य कः पर्यायः आगतः?
  4. “निस्सृत्य’ इति पदस्य विपर्ययपदं किम् आगतम् अस्ति?

उत्तर:

  1. धनिकः
  2. सः
  3. धेनोः
  4. प्रविश्य

5. चन्दनः – ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशत-सेटकमित दुग्धम् अस्माभिः दातव्यम् अस्तिा
मल्लिका – किन्तु एतावन्मानं दुग्धं कुतः प्राफ्यामः।
चन्दनः – विचारय मल्लिके! प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
मल्लिका – स्वामिन्! त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्याव:। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः।। (द्वावेव धेनोः सेवायां निरतौ भवतः। अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः, रात्रौ नीराजनेनापि तोषयतः)
चन्दनः – मल्लिके! आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थ पात्रप्रबन्धोऽपि करणीयः। (द्वावेव निर्गतौ)

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. ग्रामप्रमखस्य गृहे महोत्सवः कदा भविष्यति?
  2. मल्लिकायाः दृष्टौ चन्दनस्य विचारः कीदृशः अस्ति?
  3. द्वावेव कस्याः सेवायां निरतौ भवतः?

उत्तर:

  1. मासान्ते
  2. अत्युत्तमः
  3. धेनोः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. अधुना तौ दुग्धदोहनं विहाय किं करिष्यतः?
  2. तौ धेनोः सेवायां किम् भोजयतः?

उत्तर:

  1. अधुना तौ दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यतः।
  2. तौ धेनोः सेवायां घासादिकं गुडादिकं च भोजयतः।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. संवादे ‘भवतः’ इति कर्तृपदस्य क्रियापदं किम्?
  2. ‘त्वं तु चतुरतमः’ अत्र विशेष्यपदं किमस्ति?
  3. अत्र संवादे ‘कदाचित्’ इत्यस्य पदस्य कः विपर्ययः आगतः?
  4. ‘दिवसे’ इति पदस्य विपर्ययपदं किं आगतम्?

उत्तर:

  1. द्वौ
  2. त्वम्
  3. प्रतिदिनम्
  4. रात्रौ

6. चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?
देवेश – कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि।
चन्दनः – साधु। परं मूल्य तु दुग्धं विक्रीय एव वातुं शक्यते।
देवेशः – क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि।
मल्लिका – (स्वाभूषणं दातुमिच्छति ) तात! यदि अधुनैव मूल्यम् आवश्यक तहि, गृहाण एतत् आभूषणम्।
देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
उभौ – धन्योऽसि तात! धन्योऽसि।

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. का स्वाभूषणं दातुम् इच्छति?
  2. चन्दनः कति घटान् इच्छति?
  3. ‘नाहं पापकर्म करोमि’ इति कः कथयति?

उत्तर:

  1. मल्लिका
  2. पञ्चदश
  3. देवेशः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. देवेशः मल्लिकां किं वदति?
  2. घटान् मूल्यं किं आसीत्?

उत्तर:

  1. देवेश मल्लिका वदति-‘पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
  2. पञ्चशतोत्तर रुप्यकाणि घटान् मूल्यम् आसीत्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘नयतु यथाभिलषितान् घटान्’। अत्र विशेषणं किम्?
  2. ‘दुग्धं विक्रीय एव घट मूल्यं ददातु।’ अत्र क्रियापदं किम्?
  3. नाटयांशे ‘कुम्भान्’ इति पदस्य कः पर्यायः अत्र लिखितः?
  4. ‘करोमि’ इति क्रिया पदस्य कर्तृपदं किम्?

उत्तर:

  1. यथाभिलषितान्
  2. ददातु
  3. घटान्।
  4. अहम्।

7. (मासानन्तरं सन्ध्याकालः। एकत्र रिक्ता: नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः)
चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।
मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्।
चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दन व पात्रेण सह पतति ) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति) (नन्दिनी च पुनः पुनः पावप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति) हा! हतोऽस्मि। (चीत्कार कुर्वन् पतति) (सर्वे आ अर्येण चन्दनम् अन्योन्यं च पश्यन्ति)

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. एकत्र रिक्ताः के सन्ति?
  2. नन्दिनी केन ताडयित्वा चन्दनं रक्तरञ्जितं करोति?
  3. मासानन्तरं कीदृशः कालः अस्ति?

उत्तर:

  1. नूतनघटाः
  2. पादप्रहारेण
  3. सन्ध्याकाल:

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. धेनुः कदा चन्दनं पृष्ठपादेन प्रहरति?
  2. चन्दनः काम् आह्वयति?

उत्तर:

  1. यदा चन्दनः धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः चन्दनं पृष्ठपादेन प्रहरति।
  2. चन्दन: मल्लिकाम् आह्वयति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. संवादे ‘निकटम्’ इति पदस्य कः पर्यायः लिखितः?
  2. ‘नाथ! दोहनम् आरभस्व तावत्।’ अत्र क्रियापद किम्?
  3. ‘नन्दिनी च पुनः पुनः ……… रक्तरञ्जितं करोति’ अत्र कर्तृपदं किमस्ति?
  4. ‘प्रहरति’ इति क्रियापदस्य कर्तृपदं किम्?

उत्तर:

  1. समीपम्
  2. आरभस्व
  3. नन्दिनी
  4. धेनुः।

8. मल्लिका – चीत्कार श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः?
चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्। (मल्लिका धेनु स्नेहेन वात्सल्येन च आकार्य दोग्धं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इति
अवगच्छति।)
मल्लिका – (चन्दन प्रति) नाथ! अत्यनुचितं कृतम् आवाभ्याम् यत्, मासपर्यन्त धेनोः दोहनं कृतम्। सा पीडम् अनुभवति। अत एव ताडयति।
चन्दनः – देवि! मयापि ज्ञात यत्, अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्त दोहन न कृतम्। अत एव, दुग्धं शुष्कं जातम्। सत्यमेव उक्तम् कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्। विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।।
मल्लिका – आम् भर्तः! सत्यमेव। मयापि पठितं यत् सुविचार्य विधातव्यं कार्य कल्याणकाविणा। यः करोत्यविचार्यैतत् स विषीदति मानवः॥
किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्।
सर्वे – दिनस्य कार्य तस्मिन्नेव दिने कर्तव्यम्। यः एवं न करोति सः कष्ट लभते ध्रुवम्।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. धेनुः किमर्थम् अनुमतिम् एव न ददाति?
  2. दिनस्य कार्य कदा (कस्मिन्नेव दिने) कर्तव्यम्?
  3. अस्माभिः कीदृशं कार्य कृतम्?

उत्तर:

  1. दोग्धुम्
  2. तस्मिन्नेव
  3. अनुचितम्।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. धेनु: चन्दनं कदा एवं ताडयति?
  2. धेनोः दुग्धम् कीदृशम् जातम्?

उत्तर:

  1. यदा चन्दनः दोहनप्रक्रियाम आरभति तदा धेनः चन्दनम् एव ताडयति।
  2. धेनोः दुग्धम् शुष्कं जातम्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘कष्टम्’ इत्यस्य पदस्य कः पर्यायः अत्र संवादे लिखितः?
  2. ‘मयापि पठितं यत्। अत्र कर्तृपदं किमस्ति?
  3. संवादे ‘उचितम्’ इत्यस्य पदस्य कः विपर्ययः आगतः?
  4. ‘शीघ्रम्’ इत्यर्थे संवादे कि पदं प्रयुक्तम्?

उत्तर:

  1. पीडाम
  2. मया
  3. अनुचितम्
  4. झटिति

प्रश्न 2.
निम्नश्लोकानि पठित्वा तदाधारितान् प्रश्नान् उत्तरत

1. ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कुम्भकारः कान् रचयति?
  2. सर्व जीवन कीदृशम् अस्ति?
  3. जीवनं भङ्गरं कीदृशः इव?

उत्तर:

  1. घटान्
  2. भङ्गुरम्
  3. मृत्तिकाघटः

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कुम्भकारः कथं घटान् रचयति?
  2. मृत्तिका घटस्य जीवन कीदृशम् अस्ति?

उत्तर:

  1. कुम्भकारः जीविकाहेतोः सर्व जीवनं भङ्गुरम् इति ज्ञात्वा अपि घटान् रचयति।
  2. मृत्तिकाघटस्य जीवनम् भङ्गुरम् अस्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. श्लोके ‘रचयामि’ इति क्रियापदस्य कर्तृपदं किम्?
  2. ‘जीवनं भगुरं सर्वम्’ अत्र विशेष्यः कः?
  3. अत्र श्लोके “विज्ञाय’ इति पदस्य कः पर्यायः आगतः?
  4. ‘नश्वरम्’ इत्यर्थे किं पदं प्रयुक्तम्?

उत्तर:

  1. अहम्
  2. जीवनम्
  3. ज्ञात्वा
  4. भङ्गुरम्

2. कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।
विपरीते गतिर्यस्य स कष्ट लभते ध्रुवम्

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कीदृशं कार्यम् अद्यैव विधीयताम्?
  2. अद्यतनीयं किम् अद्यैव कर्तव्यम्?
  3. यस्य गतिः विपरीते सः किम् लभते?

उत्तर:

  1. अद्यतनीयम्
  2. कार्यम्
  3. कष्टम्।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. क: ध्रुवं कष्टं लभते?
  2. यस्य जनस्य कर्यस्य गतिः विपरीता भवति सः किं लभते?

उत्तर:

  1. यस्य गतिः विपरीते अस्ति (भवति) सः ध्रुवं कष्टं लभते।
  2. यस्य जनस्य कार्यस्य गतिः विपरीता भवति स: ध्रुवं कष्ट लभते।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘कार्यम् अद्यतनीयम्’ अनयोः पदयोः विशेषणपदं किम्?
  2. ‘स कष्टं लभते ध्रुवम्’। अत्र क्रियापदं किम्?
  3. श्लोके ‘लभते’ इति क्रियापदस्य कर्तृपदं किमस्ति?
  4. “प्राप्यते’ इतिपदस्य पर्यायपदं किम्?

उत्तर:

  1. अद्यतनीयम्
  2. लभते
  3. सः
  4. लभते।

3. सुविचार्य विधातव्यं कार्य कल्याणकाङ्गिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः।।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कः विषीदति?
  2. कार्यम् कदा कर्तव्यम्?
  3. सुविचार्य किं कर्त्तव्यम्?

उत्तर:

  1. मानव:
  2. सुविचार्य
  3. कार्यम्।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. कः मानवः विषीदति?
  2. कल्याणकाक्षिणा मानवेन कथं कार्य कर्त्तव्यम्?

उत्तर:

  1. यः मानवः अविचार्य कार्य करोति स: मानवः विषीदति।
  2. कल्याणकाक्षिणा मानवेन सुविचार्य एवं कार्य कर्त्तव्यम्।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. श्लोके ‘विधातव्यम्’ इति क्रियायाः कर्तृपदं किम्?
  2. ‘स विषीदति मानवः’। अत्र क्रियापदं किम् वर्तते?
  3. श्लोके ‘अविचार्य’ इति पदस्य क: विपर्ययः लिखित:?
  4. ‘कर्तव्यम्’ इत्यर्थ कि पदं प्रयुक्तम्?

उत्तर:

  1. कल्याणकाक्षिणा
  2. विषीदति
  3. सुविचार्य
  4. विधातव्यम्

4. आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्

(i) एकपवेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. क: रसं पिबति?
  2. कदा अक्रियमाणस्य रसं कालः पिबति?
  3. कालः कस्य रसं पिबति?

उत्तर:

  1. कालः
  2. क्षिप्रम्
  3. क्षिप्रमक्रियमाणस्य।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नएकमेव)

  1. कौदृशस्य कर्तव्यस्य रसं काल: पिबति?
  2. काल: किं पिबति?

उत्तर:

  1. क्षिप्रमक्रियमाणस्य आदानस्य, प्रदानस्य कर्तव्यस्य च कर्मणः रसं काल: पियति।
  2. कालः आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः क्षिप्रमक्रियमाणस्य रस पिबति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. श्लोके ‘आदानस्य’ इति पदस्य कः विपर्ययः लिखितः?
  2. श्लोके ‘पिबति’ इति क्रियायाः कर्तृपदं किम्?
  3. अत्र ‘शीघ्रम्’ इति पदस्य कः पर्यायः आगतः?
  4. श्लोके ‘कर्मणः’ इत्यस्य पदस्य किं विशेषणं प्रयुक्तम्?

उत्तर:

  1. प्रदानस्य
  2. कालः
  3. क्षिप्रम्
  4. कर्तव्यस्य

प्रश्न 3.
रेखाङ्कित आधृत्य प्रश्ननिर्माणम् कुरुत –

प्रश्न 1.
मल्लिका मोदकानि रचयन्ति मन्दस्वरेण शिवस्तुतिं करोति।
(क) कः
(ख) किम्
(ग) कम्
(घ) का
उत्तर:
मल्लिका मोदकानि रचयन्ति मन्दस्वरेण (ख) किम् करोति?

प्रश्न 2.
मोदकगन्धम् अनुभषन् चन्दनः प्रसन्नमनाः प्रविशति।
(क) का
(ख) किम्
(ग) कः
(घ) कथम्
उत्तर:
मोदकगन्धम् अनुभवन् (ग) कः प्रसन्नमनाः प्रविशति?

प्रश्न 3.
हस्तनिर्मितानि मोदकानि दृष्ट्वा चन्दनः जिह्वालोलुपता नियन्त्रयितुम् अक्षमः आसीत्।
(क) किम्
(ख) कानि
(ग) का
(घ) कः
उत्तर:
(ख) कानि दृष्ट्वा चन्दनः जिह्वालोलुपता नियन्त्रयितुम् अक्षमः आसीत्?

प्रश्न 4.
एतानि मोदकानि पूजानिमित्तानि सन्ति।
(क) कथम्
(ख) कानि
(ग) कान्
(घ) किमर्थम्
उत्तर:
एतानि मोदकानि (घ) किमर्थम् सन्ति?

प्रश्न 5.
मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति।
(क) काभिः
(ख) कैः
(ग) कया
(घ) केन
उत्तर:
मल्लिका (क) काभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति?

प्रश्न 6.
तया सह. चम्पा, गौरी, माया, मोहिमी, कपिलायाः सर्वाः गच्छन्ति।
(क) के
(ख) का
(ग) कः
(घ) काः
उत्तर:
तया सह (घ) का: गच्छन्ति?

प्रश्न 7.
सखिभिः सह धर्मयात्रया आनन्दिता च भव।
(क) कै
(ख) काभिः
(ग) केन
(घ) कया
उत्तर:
(ख) काभिः सह धर्मयात्रया आनन्दिता च भव?

प्रश्न 8.
मल्लिका तु धर्मयात्रायै गता।
(क) के
(ख) कः
(ग) का
(घ) काः
उत्तर:
(ग) का तु धर्मयात्रायै गता?

प्रश्न 9.
दुग्धदोहनं कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कथम्
उत्तर:
(क) किम् कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि?

प्रश्न 10.
तव मातुलानी तु गङ्गास्नानार्थं काशी गता अस्ति।
(क) का
(ख) का:
(ग) के
(घ) क:
उत्तर:
तव (ग) का तु गङ्गास्नानार्थ काशी गता अस्ति?

प्रश्न 11.
मासानन्तरं गृहे महोत्सवः भविष्यति।
(क) कुत्र
(ख) कति
(घ) किम्
उत्तर:
(ग) कदा गृहे महोत्सवः भविष्यति?

प्रश्न 12.
तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते।
(क) का
(ख) कति
(ग) कः
(घ) किम्
उत्तर:
तत्र (ख) कति सेटकमितं दुग्धम् अपेक्षते?

प्रश्न 13.
मासान्ते एव दुग्धस्य आवश्यकता भवति।
(क) कदा
(ख) किम्
(ग) कुत्र
(घ) के
उत्तर:
(क) कदा दुग्धस्य आवश्यकता भवति?

प्रश्न 14.
ग्रामप्रमुखस्य गृहे महोत्सव: मासान्त भविष्यति।
(क) कस्य
(ख) कः
(ग) किम्
(घ) कस्याः
उत्तर:
(क) कस्य गृहे महोत्सव: मासान्ते भविष्यति?

प्रश्न 15.
उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
(क) कस्य
(ख) कस्मिन्
(ग) कदा
(घ) कः
उत्तर:
(ग) कदा एव समग्रं दुग्धं धोक्ष्याव:?

प्रश्न 16.
अधुना दुग्धदोहनम् विहाय केवलं नन्दिन्याः सेवाम एव करिष्यावः।
(क) कः
(ख) काम्
(ग) किम्
(घ) कम्
उत्तर:
अधुना दुग्धदोहनम् विहाय केवलं (ग) किम् एवं करिष्याव:?

प्रश्न 17.
द्वावेव धेनोः सेवायां निरतौ भवतः।
(क) कः
(ख) कस्य
(ग) कस्याः
(घ) कस्मिन्
उत्तर:
द्वावेव (ग) कस्याः धेनोः सेवायां निरतौ भक्तः?

प्रश्न 18.
दुग्धार्थं पात्र प्रबन्धोऽपि करणीयः।
(क) का:
(ख) किम्
(ग) का
(घ) काम्
उत्तर:
दुग्धार्थ (क) का: अपि करणीयः?

प्रश्न 19.
सर्व जीवनं भरं ज्ञात्वा अपि कुम्भकार: घटान् रचयति।
(क) कान्
(ख) काम्
(ग) किम्
(घ) कम्
उत्तर:
सर्व जीवनं भङ्गुरं ज्ञात्वा अपि कुम्भकारः (क) कान् रचयति?

प्रश्न 20.
मूल्यं विना तु एकमपि घटं न दास्यामि।
(क) कः
(ख) कम्
(ग) किम्
(घ) काम्
उत्तर:
मूल्यं विना तु एकमपि (ख) कम् दास्यामि?

प्रश्न 21.
दुग्ध विक्रीय एव घटमूल्यम् ददातु।
(क) कदा
(ख) कथम्
(ग) कम्
(घ) किम्
उत्तर:
(क) कदा एव घटमूल्यम् ददातु?

प्रश्न 22.
यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति।
(क) कः
(ख) केन
(ग) कथम्
(घ) का
उत्तर:
यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः (ख) केन प्रहरति?

प्रश्न 23.
दोहन प्रक्रियाम् आरभमाणम् एवं धेनुः ताडयति।
(क) किम्
(ख) कम्
(ग) केन
(घ) कदा
उत्तर:
(क) किम् आरभमाणम् एव धेनुः ताडयति?

प्रश्न 24.
दिनस्य कार्य तस्मिन्नेव दिने कर्त्तव्यम्।
(क) किम्
(ख) के
(ग) कथम्
(घ) कदा
उत्तर:
दिनस्य कार्य (घ) कदा कर्त्तव्यम्?

प्रश्न 4.
निम्नलिखितानि श्लोकानि पठित्वा तेषाम् अन्वय-लेखनेन रिक्तस्थानानि सम्पूरयत

1. ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः।।
अन्वयः- अहम् ज्ञात्वा अपि

  1. ………… घटान्
  2. …………. यथा
  3. …………. मृत्तिकाघटः (क्षणभङ्गुरः वर्तते) (तथैव) सर्व
  4. …………. (अपि) भगुरम् अस्ति।

मञ्जूषा – जीवन, एषः, जीविकाहेतोः, रचयामि
उत्तर:

  1. जीविकाहेतोः
  2. रचयामि
  3. एषः
  4. जीवन।

2. कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।
विपरीते गतिर्यस्य स कष्ट लभते ध्रुवम्
अन्वयः- यत्

  1. ………… कायम् (अस्ति) तत्
  2. ……….. विधीयताम्। यस्य गतिः
  3. ……….. (भवति) सः ध्रुवम्
  4. …………… लभते।

मञ्जूषा – विपरीते, अद्यैव, कष्ट, अद्यतनीयं |
उत्तर:

  1. अद्यतनीयं
  2. अद्यैव
  3. विपरीते
  4. कष्टं।

3. सुविचार्य विधातव्यं कार्यं कल्याणकाङ्गिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः
अन्वयः-

  1. ……… (जनेन) कार्य
  2. ………….. (एव) विधातव्यम्। यः
  3. ………… एतत् अविचार्य करोति
  4. ……………. (नून) विषीदति।

मञ्जूषा – सः, कल्याणकाक्षिणा, सुविचार्य, मानवः
उत्तर:

  1. कल्याणकाक्षिणा
  2. सुविचार्य
  3. मानवः
  4. सः।

4. आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्
अन्वयः- क्षिप्रम् अक्रियमाणस्य

  1. ………. प्रदानस्य
  2. च ………..
  3. ………. तसं
  4. …… पिबति।

मञ्जूषा – आदानस्य, कालः, कर्तव्यस्य, कर्मणः
उत्तर:

  1. आदानस्य
  2. कर्तव्यस्य
  3. कर्मण:
  4. कालः।

प्रश्न 5.
निम्न श्लोकान् पठित्वा तेषां भावार्थं मञ्जूषायाः सहायतया लिखत –

ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवन भङ्गुरं सर्वं यथैष मृत्तिकाघटः
भावार्थ- अस्य भावोऽस्ति यत् अहम्

  1. ………….. जीवनं ज्ञात्वा अपि केवल
  2. ………. कर्तुम् एतान् घटान् रचयामि। यतः
  3. …………. जीवनम् एतेषां मृत्तिकायाः
  4. …………..” इव नष्टव्यम् अस्ति।

मञ्जूषा – सम्पूर्ण, उत्तमरीत्या, घटानाम्, जीविकोपार्जनम् |
उत्तर:

  1. उत्तमरीत्या
  2. जीविकोपार्जनम्
  3. सम्पूर्ण
  4. घटानाम्।

कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।
विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्
भावार्थ- अद्य

  1. ……………. कार्यम् अद्यैव जनेन कर्तव्यम् तदैव तस्य
  2. ………… समुचितं फलं तेन प्राप्यते। परं यः जनः
  3. …………. समये कार्य न करोति सः जनः निश्चितरूपेण
  4. …………… प्राप्नोति एव।

मञ्जूषा – कार्यस्य, उचिते, करणीयं, दुखम्
उत्तर:

  1. करणीयं
  2. कार्यस्य
  3. उचिते
  4. दुःखम्।

3. सुविचार्य विधातव्यं कार्य कल्याणकाङ्गिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः
भावार्थ- अस्य श्लोकस्य भावोऽस्ति यत् जनेन कार्य सदैव पूर्णतया

  1. ……… एव करणीयम्। यः जनः मजला चिन्तनपूर्वक
  2. ……….. करोति सः सदैव कल्याणं प्राप्नोति, परं यः
  3. ……….. करोति सः तु
  4. ………….. एव विन्दति।।

मञ्जूषा – जन:, दुःखम्, चिन्तयित्वा, कार्यम् |
उत्तर:

  1. चिन्तयित्वा
  2. कार्यम्
  3. जनः
  4. दु:खम्।

आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तवसम्।।
भावार्थ- यः मनुष्यः शीघ्रम् एव

  1. ……………. प्रदानस्य अथवा अन्यः
  2. …………… कार्यस्य आरम्भणं न करोति; तस्य
  3. …………..” यदपि फल सफलता वा भवति तस्य नाशं
  4. …………. करोति एव।

मञ्जूषा – कर्मणः, आदानस्य, कालः, कर्तव्यस्य |
उत्तर:

  1. आदानस्य
  2. कर्तव्यस्य
  3. कर्मणः
  4. कालः

प्रश्न 6.
कथाक्रम लेखनम् अधोलिखितानि वाक्यानि कथाक्रमानुसारेण पुनः लिखत

प्रश्न 1.

  1. चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति।
  2. परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।
  3. तर्हि, शीघ्रमेव पूजन सम्पादय।
  4. विरम। विरम। मा स्पृश! एतानि मोदकानि।
  5. ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।
  6. तावत् गृह व्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।
  7. अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरम् प्रति गमिष्यामि।
  8. तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रितुम् अक्षमः अस्मि।

उत्तर:

  1. ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।
  2. विरम। विरमा मा स्पृश! एतानि मोदकानि।
  3. तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रितुम् अक्षमः अस्मि।
  4. परम् एतानि मोदकानि पूजानिमित्तानि निसन्ति।
  5. तर्हि, शीघ्रमेव पूजनं सम्पादय।
  6. अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
  7. चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति।
  8. तावत् गृहव्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।

प्रश्न 2.

  1. मातुलानि तु गङ्गास्नानार्थ काशी गता अस्ति।
  2. धन्यवादः मातुल! याम्यधुना।
  3. सखिभि सह धर्मयात्रया आनन्दिता च भव।
  4. मातुल! पितामहः कथयति, मासानत्तरम् अस्मत् गृहे महोत्सवः भविष्यति।
  5. दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्ध करिष्यामि।
  6. दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
  7. एषा व्यवस्था भवदृभिः करणीया।
  8. मल्लिका तु धर्मयात्रायै गता।

उत्तर:

  1. सखिभिः सह धर्मयात्रया आनन्दिता च भव।
  2. मल्लिका तु धर्मयात्रायै गता।
  3. दुग्धदोहनं कृत्वा तत: स्वप्रातराशस्य प्रबन्धं करिष्यामि।
  4. तव मातुलानि तु गङ्गास्नाकार्थ काशी गता अस्ति।
  5. मातुल। पिता महः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति।
  6. एषा व्यवस्था भवद्धिः करणीया।
  7. दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
  8. धन्यवादः मातुल! याम्यधुना।

प्रश्न 3.

  1. प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति।
  2. तव यात्रा तु सम्यक् सफला जाता?
  3. अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः।
  4. तव कृपया तु अहं धनिकः भविष्यामि।
  5. मासान्ते एव दुग्धस्य आवश्यकता भवति।
  6. ग्रामप्रमुखस्य गृहे महोत्सव: मासान्ते भविष्यति।
  7. दुग्धार्थं पात्र प्रबन्धोऽपि करणीयः।
  8. भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।

उत्तर:

  1. तव कृपया तु अहं धनिकः भविष्यामि।
  2. मासान्ते एव दुग्धस्य आवश्यकता भवति।
  3. भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।
  4. तव यात्रा तु सम्यक् सफला जाता?
  5. ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति।
  6. प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति।
  7. अनेन अधिकाधिक दुग्धं मासान्ते प्राप्स्यावः।
  8. दुग्धार्थ पात्रप्रबन्धोऽपि करणीयः।

प्रश्न 4.

  1. मयापि ज्ञातं यत्, अस्माभिः सर्वथा अनुचितमेव कृतं यत् पूर्णमासपर्यन्तं दोहनं न कृतम्।
  2. दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम।
  3. नन्दिनी च पुनः पुनः पादप्रहारेष ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
  4. परं मूल्यं तु दुग्धं विक्रीय एवं दातुं शक्यते।
  5. कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्।
  6. दिनस्य कार्य तस्मिन्नेव दिने कर्तव्यम्।
  7. मूल्यं विना तु एकमपि घटं न दास्यामि।
  8. यदि अधुनैव मूल्यम् आवश्यकं तर्हि ग्रहण एतत् आभूषणम्।

उत्तर:

  1. परम् मूल्यं तू दुग्धं विक्रीय एव दातुम शक्यते।
  2. मूल्यं विना तु एकमपि घटं न दास्यामि।
  3. यदि अधुनैव मूल्यम् आवश्यक तर्हि; गृहाण एतत् आभूषणम्।
  4. कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्।
  5. नन्दिनी पुनः पुनः पादप्रहरेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
  6. दोहन प्रक्रियाम् आरभमाणम् एव ताडयति माम्।
  7. मयापि ज्ञातम् यत्, अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्तं दोहनं न कृतम्।
  8. दिनस्य कार्य तस्मिन्नेव दिने कर्त्तव्यम्।

प्रश्न 5.

उचित पर्यायपदानि मेलयत –

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 1
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 2
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 3

प्रश्न 6.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचितं योजयत

‘क’ स्तम्भ – ‘ख’ स्तम्भ

  1. दुग्धपात्रहस्तः – यात्रा
  2. सुरक्षितम् – अहम्
  3. सफला – सः
  4. धनिकः – त्वम्
  5. प्रसन्नः – क्रमे
  6. चतुरतमः – मृत्तिकाघटः
  7. अस्मिन् – दुग्धम्
  8. अत्युत्तमः – विचारः
  9. निरतौ – चन्दनः
  10. एषः – घटान्
  11. सर्वम् – द्वौ
  12. पञ्चदश – जीवनम्

उत्तर:

  1. – चन्दनः
  2. – दुग्धम्
  3. – यात्रा
  4. – अहम्
  5. – सः
  6. – त्वम्
  7. – क्रमे
  8. – विचारः
  9. – द्वौ
  10. – मृत्तिकाघटः
  11. – जीवनम्
  12. – घटान्

प्रश्न 7.
उचितानि विपर्ययपदानि मेलनं कुरुत –

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 4
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 5
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 6

Filed

Leave a Comment

Your email address will not be published.

ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22
ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22