Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका

Shemushi Sanskrit Class 10 Solutions Chapter 10 भूकंपविभीषिका

Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
उत्तराणि:
भूकम्पस्य

(ख) कीदृशानि भवनानि धाराशायीनि जातानि?
उत्तराणि:
बहुभूमिकानि

(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?
उत्तराणि:
महाप्लावनदृश्यम्

(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?
उत्तराणि:
दैवीप्रकोपो/भूकम्पो

(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?
उत्तराणि:
विविशाः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
उत्तराणि:
समस्त राष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।

(ख) भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
उत्तराणि:
भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत्।

(ग) पृथिव्याः स्खलनात् कि जायते?
उत्तराणि:
पृथिव्याः स्खलतात् महाविनाशदृश्य जायते।

(घ) समग्रं विश्वं कै: आतंकित: दृश्यते?
उत्तराणि:
समग्र विश्वः प्राकृतिक (दैवीय) आपदाभिः आतंकित: दृश्यते।

(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तराणि:
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।

प्रश्न 3.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
उत्तराणि:
केषु

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
उत्तराणि:
के

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
उत्तराणि:
कुत्र/कस्मिन्

(घ) एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
उत्तराणि:
कीदृशी

(ङ) तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।
उत्तराणि:
किम्

प्रश्न 4.
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
उत्तराणि:

  1. भूकम्पधरायाः विनाशलौली भवति।
  2. यदा धरायाः अन्तः स्थितासु शिलासु संघर्षणं भवति तदा भूकम्प: जायते।
  3. भूकस्पेन अपरिमित लावाराः धरातलात् निर्गत्य नदीवेगेन प्रवहन्तः ग्रामेषु नगरेषु वा महाविनाशं कुर्वन्ति।
  4. अतः अस्माभिः प्रकृतेः विरुद्धानि कार्याणि न करणीयानि।
  5. बहुभूमिक भवननिर्माणं नदीतटं बन्धान्, वृक्षाणां कर्तनम् का न करणीयम्।

प्रश्न 5.
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

(क) समग्रं भारतं उल्लासे मग्नः ___________ (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छनपदं विनष्टं ___________ (कृ + क्तवतु + ङीप)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः ___________ (भू + लङ, प्रथमः पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ___________ (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः ___________ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे ___________ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
उत्तराणि:
(क) अस्ति
(ख) कृतवती
(ग) अभवन्
(घ) भवन्ति
(ङ) पृच्छन्ति
(च) समाविशेयुः

प्रश्न 6.
सन्धि / सन्धिविच्छेदं च कुरुत-

(अ) परसवर्णसन्धिनियमानुसारम्
(क) किञ्च = ___________ + च
(ख) ___________ = नगरम् + तु
(ग) विपन्नञ्च = ___________ + ___________
(घ) ___________ = किम + नु
(ङ) भुजनगरन्तु = ___________ + ___________
(च) ___________ = सम् + चयः
उत्तराणि:
(क) किम्
(ख) नगरन्तु
(ग) विपन्नम् + च
(घ) किन्नु
(ङ) भुजनगरम् + तु
(च) सञ्चयः

(आ) विसर्गसन्धिनियमानुसारम्

(क) शिशवस्तु = ___________ + ___________
(ख) ___________ = विस्फोटैः + अपि
(ग) सहस्रशोऽन्ये = _________ + अन्ये
(घ) विचित्रोऽयम् = विचित्र: + _________
(ड) _________ = भूकम्पः + जायत
(च) वामनकल्प एव = ___________ + ___________
उत्तराणि:
(क) शिशवः + तु
(ख) विस्फोटैरपि
(ग) सहस्रशः
(घ) अयम्
(ङ) भूकम्पो जायते
(च) वामनकल्पः + एव

प्रश्न 7(अ).
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Q7
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Q7.1
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Q7.2

प्रश्न 7(आ).
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Q7.3
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Q7.4

प्रश्न 8(अ).
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – _________ + _________
हसन् – _________ + _________
विशीर्णा – वि + शृ + क्त + _________
प्रचलन्ती – _________ + _________ + शतृ + डीप् (स्त्री)
हतः – _________ + _________
उत्तराणि:
धृतवान् – धृ + क्तवतु
हसन् – हस् + शतृ
विशीर्णा – वि + शृ + क्त + टाप् (स्त्री)
प्रचलन्ती – प्र + चल् + शतृ + डीप् (स्त्री)
हतः – हन् + क्त

प्रश्न 8(आ).
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – _________
दारुणा च सा विभीषिका – _________
ध्वस्तेषु च तेषु भवनेषु – _________
प्राक्तने च तस्मिन् युगे – _________
महत् च तत् राष्ट्र तस्मिन् – _________
उत्तराणि:
महत् च तत् कम्पन – महत्कम्पनम्
दारुणा च सा विभीषिका – दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु – ध्वस्तभवनेषु
प्राक्तने च तस्मिन् युगे – प्राग्युगे
महत् च तत् राष्ट्र तस्मिन् – महद्राष्ट्र

योग्यताविस्तारः
हमारे वातावरण में भौतिक सुख-साधनों के साथ-साथ अनेक आपदाएँ भी लगी रहती हैं। प्राकृतिक आपदाएँ जीवन को अस्त-व्यस्त कर देती हैं। कभी किसी महामारी की आपदा, बाढ़ तथा सूखे की आपदा या तूफान के रूप में भयंकर प्रलय-ये सब हम अपने जीवन में देखते तथा सुनते रहते हैं। भूकम्प भी ऐसी ही आपदा है, जिस पर यहाँ दुष्टिपात किया गया है। इस पाठ के माध्यम से यह बताया गया है कि किसी भी आपदा में बिना किसी घबराहट के, हिम्मत के साथ किस प्रकार हम अपनी सुरक्षा स्वयं कर सकते हैं।

भूकम्प परिचय- भूमि का कम्पन भूकम्प कहलाता है। वह बिन्दु भूकम्प का उद्गम केन्द्र कहा जाता है, जिस बिन्दु पर कम्पन की उत्पत्ति होती है। कम्पन तरंग के रूप में विविध दिशाओं में आगे चलता है। ये तरंगें सभी दिशाओं में उसी प्रकार फैलती हैं जैसे किसी शान्त तालाब में पत्थर के टुकडों को फेंकने से तरंगें उत्पन्न होती हैं।

धरातल पर कुछ स्थान ऐसे हैं जहाँ, भूकम्प प्रायः आते ही रहते हैं, उदाहरण के अनुसार-प्रशान्त महासागर के चारों ओर के प्रदेश, हिमाचल प्रदेश, गड़ा एवं ब्रह्मपुत्र का तटीय भाग, इन क्षेत्रों में अनेक भूकम्प आए जिनमें से कुछ तो अत्यधिक भयावह और विनाशकारी थे। सुनामी भी एक प्रकार का भूकम्पन ही है जिसमें भूमि के भीतर अत्यन्त गहराई से तीव्र कम्पन उत्पन्न होता है। यही कम्पन समुद्र के जल को काफी ऊँचाई तक तीव्रता प्रदान करता है। फलस्वरूप तटीय क्षेत्र सर्वाधिक प्रभावित होते हैं। सुनामी का भीषण प्रकोप 20 सितम्बर, 2004 को हुआ। जिसकी चपेट में भारतीय प्रायद्वीप सहित अनेक देश आ गये। क्षिति, जल, पावक, गगन और समीर इन पञ्चतत्वों में सन्तुलन बनाए रखकर प्राकृतिक आपदाओं से बचा जा सकता है। इसके विपरीत असन्तुलित पञ्चतत्वों से सृष्टि विनष्ट हो सकती है।

भूकम्पविषये प्राचीनतम्
प्राचीनैः, ऋषिभिः अपि स्वस्वग्रन्थेषु भूकम्पोल्लेखः कृतः येन स्पष्टं भवति यत् भूकम्पाः प्राचीनकालेऽपि आयान्ति स्म।
यथा-
वराहसंहितायाम्-
क्षितिकम्पमाहुरेके मह्यन्तर्जलनिवासिसत्त्वकृतम्
भूभारखिन्नदिग्गजनिः श्वास समुद्भवं चान्ये।
अनिलोऽनिलेन निहितः क्षिती पतन सस्वनं करोत्यन्ये
केचित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः॥
मयूरचित्रे
कदाचित् भूकम्पः श्रेयसेऽपि कल्पते। एतादृशाः अपि उल्लेखाः अस्माकं साहित्ये समुपलभ्यन्ते यथा वारुणमण्डलमौशनसे-
प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे
द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम्।
अत्र वृष्टिश्च महती शस्यवृद्धिस्तथैव च,
प्रज्ञा धर्मरताश्चैव भयरोगविवर्जिताः॥
उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये।
क्षेमारोग्यसुभिक्षार्थ वृष्टये च सुखाय च।
भूकम्पसमा एव अग्निकम्पः वायुकम्पः, अम्बुकम्पः इत्येवमन्येऽपि भवन्ति।

Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत-

(क) एकोत्तर द्विसहस्रनीष्टाब्ने (2001 ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर- राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुण- विभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्त्रमिताः प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवन धारितवन्तः।

प्रश्न 1.
एकपदेन उत्तरत-
(i) भूकम्पः कुत्र अभवत्?
(ii) कस्याः क्रीडनकमिव भुजनगरं खण्डम् जातम्?
उत्तराणि:
(i) गुर्जरराज्ये
(ii) मृत्तिकायाः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(i) भूकम्पस्य केन्द्रभूतं भुजनगरे किम् किम् अभवत्?
उत्तराणि:
(i) भूकम्पस्य केन्द्रभूतं भुजनगरे तु मृतिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘भवनानि’ इति विशेष्यपदस्य विशेषणपदं किम्?
(ii) ‘आसीत्’ इति क्रियापदस्य कर्तृपदं किम्?
(iii) अस्मिन् गद्यांशे सम्बोधन पदं किम् प्रयुक्तम्।
उत्तराणि:
(i) बहुभूमिकानि
(ii) भारत
(iii) हा दैव!

(ख) इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्या पञ्चोत्तर-द्विसहस्रख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान देशे च धरायाः महम्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्य कम्पनञ्च। तदैव भयावहकम्पनं धरायाः
उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।

प्रश्न 1.
एकपदेन उत्तरत-
(i) कच्छ-भूकम्पस्य विभीषिका कीदृशी आसीत्?
(ii) धरायाः महत्कम्पनं कुत्र जातम्?
उत्तराणि:
(i) भैरव
(ii) कश्मीरप्रान्ते

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(i) पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः किम् कथयन्ति?
उत्तराणि:
(i) पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भ विद्यमानाः बृहत्यः पाषाणशिला यदा संघर्षणवशात् त्रुट्यन्ति तदा भीषणं संस्खलनम् जायते, संस्खलनजन्य कम्पनञ्च।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘वैज्ञानिकाः’ कर्तृपदस्य क्रियापदं किम्?
(क) पृथिव्या
(ख) कथयन्ति
(ग) अन्तर्गर्भ
(घ) इति
उत्तराणि:
(ख) कथयन्ति

(ii) ‘मृताः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) जनाः
(ख) कालकवलिताः
(ग) परिमिताः
(घ) पृथ्वी
उत्तराणि:
(ख) कालकवलिताः

(iii) ‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) कालकवलिताः
(ख) लक्षपरिमिताः
(ग) विद्यमानाः
(घ) वैज्ञानिका
उत्तराणि:
(ख) लक्षपरिमिताः

(ग) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशतातामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति।
निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।

प्रश्न 1.
एकपदेन उत्तरत-
(i) केषाम् विस्फोटैः भूकम्पो जायते?
(ii) ज्वालामुखपर्वतानां कृते के कथयन्ति?
उत्तराणि:
(i) ज्वालामुखपर्वतानां
(ii) भूकम्पविशेषज्ञाः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(i) ज्वालामुखपर्वतानां कृते भूकम्प विशेषज्ञाः किम् कथयन्ति?
उत्तराणि:
(i) ज्वालामुखपर्वतानां कृते भूकम्पविशेषज्ञाः कथयन्ति यत् पृथिव्याः गर्भ विद्यमानोऽग्निर्यद। खनिजमृत्तिकाशिलादि सञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्यर्वारगत्या धरा पर्वतं वा विदार्य बहिनिष्क्रामति।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘भूकम्पविशेषज्ञाः’ इति कर्तृपदस्य क्रियापदं किम्?
(ii) ‘अन्तः’ इतिपदस्य विपर्ययपदं किं प्रयुक्तम्?
(iii) ‘विवशाः’ इति विशेषणपदस्य विशेष्यपदं किम्?
उत्तराणि:
(i) कथयन्ति
(ii) बहिः
(iii) प्राणिनः

(घ) यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कश्चयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्र नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

प्रश्न 1.
एकपदेन उत्तरत-
(i) कस्य प्रकोपस्य नाम भूकम्पः जायते?
(ii) कस्य स्थिरोपायो न दृश्यते?
उत्तराणि:
(i) दैवस्य
(ii) भूकम्पस्य

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(i) भूकम्परहस्यज्ञाः किम् कथयन्ति?
उत्तराणि:
(i) भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवन-निर्माण न करणीयम्। तटबन्ध निर्माय बृहन्मात्र नदीजलमपि न एकस्मिन् स्थले पुजीकरणीयम् अन्यथा असन्तुलनवशात् भूकम्पः सम्भवति।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवननिर्माणं
(ख) निर्माय
(ग) तटबन्धं
(घ) मानव
उत्तराणि:
(क) भवननिर्माणं

(ii) ‘विज्ञानगर्वितः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) वामनकल्पः
(ख) मानवः
(ग) कोऽपि
(घ) प्रकृतिः
उत्तराणि:
(ख) मानवः

(iii) भूकम्परहस्यज्ञाः इति कर्तृपदस्य क्रियापदं किम्?
(क) वस्तुतः
(ख) कथयन्ति
(ग) करणीयम्
(घ) निर्माय
उत्तराणि:
(ख) कथयन्ति

2. रेखातिपदम् प्रश्ननिर्माणं कुरुत-

(क) भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्।
(ख) गुर्जर-राज्यं पर्याकुलं विपन्नञ्च जातम्।
(ग) भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डरखण्डम् जातम्।
(घ) बहुभूमिकानि भवनानि धराशायीनि जातानि।
(ङ) भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृय॑म् उपस्थितम्।
(च) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
(छ) भूकम्पविशेषज्ञाः इति कथयन्ति।
(ज) प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प अभवत्।
(झ) पाकिस्तानदेशे धरायाः महत्कम्पनं जातम्।
(ञ) पाषाणशिला संघर्षणवशात् त्रुट्यन्ति।
(ट) निहन्यन्ते च विवशाः प्राणिनः।
(ठ) अनेके भूकम्परहस्यज्ञाः कथयन्ति।
(ड) लक्षपरिमिताः जनाः अकालकालकवलिताः अभवन्।
(ढ) सम्पीडिताः सहायतार्थम् करुणकरुणं क्रन्दन्ति स्म।
उत्तराणि:
(क) कस्मिन्
(ख) कीदृशम्
(ग) कीदृशमिव
(घ) कीदृशानि
(ङ) काभिः
(च) केषाम्
(छ) के
(ज) कीदृशः
(झ) कस्याः
(ञ) कस्मात्
(ट) कीदृशाः
(ठ) के
(ड) के
(ढ) किमर्थम्

3. उचितं उत्तराणि चित्वा प्रश्ननिर्माणं कुरुत-

(क) ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) काम
उत्तराणि:
(iii) कीदृशम्

(ख) नद्याः जलम् एकस्मिन् स्थले न पुजी कारणीयम्।
(i) कस्याः
(ii) का
(iii) किम्
(iv) कम्
उत्तराणि:
(i) कस्याः

(ग) पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।
(i) का
(ii) कस्याम्
(iii) कस्याः
(iv) किम्
उत्तराणि:
(ii) कस्याः

(घ) शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
(i) कति
(ii) कानि
(iii) कीदृशानि
(iv) कान्
उत्तराणि:
(i) कति

(ङ) सहस्रमिता: प्राणिनः तु क्षणनैव मृताः।
(i) काः
(ii) के
(iii) कति
(iv) कीदृशाः
उत्तराणि:
(iii) कति

(च) कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।
(i) कुत्र
(ii) के
(iii) काः
(iv) कीदृशे
उत्तराणि:
(i) कुत्र

(छ) उत्खाता विद्युद्दीपस्तम्भाः।
(i) का
(ii) के
(iii) कीदृशाः
(iv) कथम्
उत्तराणि:
(ii) के

(ज) भूमिः फालडये विभक्ता आसीत्।
(i) क:
(ii) काः
(iii) का
(iv) की
उत्तराणि:
(iii) का

(झ) लक्षपरिमिताः जनाः अकालकालकवालिताः।
(i) कति
(ii) काः
(iii) के
(iv) कीदृशाः
उत्तराणि:
(i) कति

(ज) असन्तुलनवशात् भूकम्पः सम्भवति।
(i) कस्मात्
(ii) कात्
(iii) कस्मै
(iv) के
उत्तराणि:
(i) कस्मात्

4. अधोलिखिपदानां तेषाम् पर्यायपदानि सह मेलनम् कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Additional Q4
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Additional Q4.1
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Additional Q4.2

5. अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Additional Q5
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 भूकंपविभीषिका Additional Q5.1

Leave a Comment

Your email address will not be published.

ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22
ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22