Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः

Shemushi Sanskrit Class 10 Solutions Chapter 12 अनयोक्त्यः

Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकापलेन उपर लिखत-

(क) कस्य शोभा एकेन राजहंसेन भवति?
उत्तराणि:
सरसः

(ख) सरसः तीरे के वसन्ति?
उत्तराणि:
बकसहस्रम्

(ग) कः पिपासितः म्रियते?
उत्तराणि:
चातकः

(घ) के रसालमुकुलानि समाश्रयन्ते?
उत्तराणि:
भृङ्गा

(ङ) अम्भोदाः कुत्र सन्ति?
उत्तराणि:
गगने

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) सरसः शोभा केन भवति?
उत्तराणि:
सरसः शोभा एकेन राजहंसेन भवति।

(ख) चातकः किमर्थं मानी कथ्यते?
उत्तराणि:
चातकः धरायाः जल न पीत्वा पुरन्दरं वर्षाजलं माचते अन्यथा पिपासितः एव म्रियते अत: मानी कथ्यते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तराणि:
सरः त्वयि सङ्कोचं अञ्चतिसति मीनः दीनां गतिं प्राप्नोति।

(घ) कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तराणि:
नानानदीनदशतानि च पूरयित्वा जलद: रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तराणि:
वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

प्रश्न 3.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मालाकारः तोयैः तरोः पुष्टि करोति।
उत्तराणि:
मालाकार: कैः तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तराणि:
भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तराणि:
के अम्बरपथम् आपेदिरे?

(घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तराणि:
क: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(ङ) चातकः वने वसति।
उत्तराणि:
चातकः कुत्र/कस्मिन् वसति?

प्रश्न 4.
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

(क) तोयैरल्पैरपि __________ वारिदेन।
उत्तराणि:
अर्थात् हे मालाकार। त्वम् भीषणतया ग्रीष्ममतौं भानौ तपति सति अल्पेन जलेन या सेवा भवता अस्य वृक्षस्य पोषणार्थं कृता किं सा एव सेवा वर्षाकाले परितः धारासु प्रवाहतैः जलैः वारिदेन अपि कर्तुं सक्षमेन भूमते? अर्थात् मानवजीवन केवल सुखैरेव प्रवर्धते तदर्थं तु दुःखमपि तथैव अनिवार्य वर्तते यथा सुखम् अस्ति। सुख दु:खम् तु मानवजीवनस्य द्वौ स्कन्धौ इव वर्तते।

(ख) रे रे चातक __________ दीनं वचः।
उत्तराणि:
अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वासि श्रुत्वा अवधीयताम् पतः गगने अनेके अनेके बदलाः सन्ति परन्तु तेषु सर्वे स्व वर्षाभिः धरां न तर्पयन्ति अपितु केचिदेव वर्षस्ति केचितु वृथा एव गर्जन्ति। अत: यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्रे स्वदीनं वचः मा ब्रूहि। एवमेव संसारेऽपि अनेक जनाः सन्ति तो सर्वे स्वमित्राणां साहाय्यं न कुर्वन्ति अतः सर्वेषाम् अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्माने समाप्यते जगति हास्यं च भवति।

प्रश्न 5.
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
(क) आपेदिरे ___________ कतमां गतिमभ्युपैति।
उत्तराणि:
पतङ्गाः परितः अम्बरपथम् अपोदिरे भृङ्गाः रसालमुकुलानि समात्रयन्ते। सर: त्वमि सङ्कोचम् अञ्चति हन्त दीनदीनः मीनः नु कतमा गतिम् अभ्युपैतु।।

(ख) आश्वास्य ___________ सैव तवोत्तमा श्रीः।।
उत्तराणि:
तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदीनदर्शतानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।।

प्रश्न 6.
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

(i) यथा- अन्यः + उक्तयः = अन्योक्तयः
(क) _______ + _______ = निपीतान्यम्बूनि
(ख) _______ + उपकार: = कृतोपकार:
(ग) तपन + _______ = तपनोष्णतप्तम्
(घ) तव + उत्तमा = _______
(ङ) न + एतादृशाः = _______
उत्तराणि:
(क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि
(ख) कृत + उपकारः = कृतोपकारः
(ग) तपन + उष्णतप्तम् = तपनोष्णतप्तम्
(घ) तव + उत्तमा = तवोत्तमा
(ङ) न + एतादृशाः = नैतादृशाः

(ii) यथा- पिपासितः + अपि = पिपासितोऽपि
(क) _______ + _______ = कोऽपि
(ख) _______ + _______ = रिक्तोऽसि
(ग) मीनः + अयम् = _______
(घ) सर्वे + अपि = _______
उत्तराणि:
(क) को + अपि = कोऽपि
(ख) रिक्तो + असि = रिक्तोऽसि
(ग) मीनः + अयम् = मीनोऽयम्
(घ) सर्वे + अपि = सर्वेऽपि

(iii) यथा- सरसः + भवेत् = सरसो भवेत्
(क) खगः + मानी = _______
(ख) _______ + नु = मीनो नु
(ग) पिपासितः + वा = _______
(घ) _______ + _______ = पुरतो मा
उत्तराणि:
(क) खगः + मानी = खगोमानी
(ख) मीनः + नु = मीनो नु
(ग) पिपासितः + वा = पियासितो वा
(घ) पुरतः + मा = पुरतो मा

(iv) यथा- मुनिः + अपि = मुनिरपि
(क) तोयैः + अल्पैः = _______
(ख) _______ + अपि = अल्पैरपि
(ग) तरोः + अपि = _______
(घ) _______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति
उत्तराणि:
(क) तोयैः + अल्पैः = तोयैरल्पैः
(ख) अल्पैः + अपि = अल्पैरपि
(ग) तरोः + अपि = तरोरपि
(घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति

प्रश्न 7.
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Q7
उत्तराणि:
(क) राजहंसः
(ख) भीमभानुः
(ग) अम्बरपन्थाः
(घ) उत्तमश्री
(ङ) सावधानमनसा

योग्यताविस्तारः
अन्योक्ति अर्थात् किसी की प्रशंसा अथवा निन्दा अप्रत्यक्ष रूप से अथवा किसी बहाने से करना जब किसी प्रतीक या माध्यम से किसी के गुण की पोप की सिया की जाती है, तब वह पाठकों के लिए अधिक ग्राहा होता है। प्रस्तुत पाठ में ऐसी ही सात अन्योक्तियों का संकलन है जिनमें राजहंस, कोकिल, मेघ, मालाकार, सरोवर तथा चातक के माध्यम से मानव को सद्वृत्तियों एवं सत्कर्मों के प्रति प्रवृत्त होने का संदेश दिया गया है।

पाठपरिचयः
अन्येषां कृते या उक्तयः कथ्यन्ते ता उक्तयः अन्योक्तयः अत्र पाठे सङ्कलिता वर्तन्ते। अस्मिन् पाठे षष्ठश्लोकम् सप्तमश्लोकम् च अतिरिच्य ये श्लोकाः सन्ति ते पण्डितराजजगन्नाथस्य ‘भामिनीविलास’ इति गीतिकाव्यात् सङ्कलिताः सन्ति। षष्ठः श्लोकः महाकवि माघस्य ‘शिशुपालवधम्’ इति महाकाव्यात् गृहीतः अस्ति। सप्तमः श्लोकः महाकविभर्तृहरेः नीतिशतकात् उद्धृतः अस्ति।

कविपरिचयः
पण्डितराजजगन्नाथः संस्कृतसाहित्यस्य मूर्धन्यः सरसश्च कविः आसीत्। सः शाहजहाँ नामकेन मुगलशासकेन स्वराजसभायां सम्मानितः। पण्डितराजजगन्नाथस्य त्रयोदश कृतयः प्राप्यन्ते।

  1. गङ्गालहरी
  2. अमृतलहरी
  3. सुधालहरी
  4. लक्ष्मीलहरी
  5. करुणालहरी
  6. आसफविलासः
  7. प्राणाभरणम्
  8. जगदाभरणम्
  9. यमुनावर्णनम्
  10. रसगङ्गाधरः
  11. भामिनीविलासः
  12. मनोरमाकुचमर्दनम्
  13. चित्रमीमांसाखण्डनम्।

एतेषु ग्रन्थेषु ‘भामिनीविलासः’ इति तस्य विविध पद्यानां सङ्कहः।

महाकविमाध: – महाकविमाघस्य एकमेव महाकाव्यं प्राप्यते “शिशुपालवधम्” इति।

भर्तहरि: – महाकविभहरेः त्रीणि शतकानि सन्ति, नीतिशतकम्, शृङ्गारशतम् वैराग्यशतकं च।

अधोवत्ता: विविधविषयकाः श्लोकाः अपि पठनीयाः स्मरणीयाश्च-
हंसः – हंसः श्वेतः बकः श्वेतः को भेदो वकहंसयोः।
नीरक्षीरविभागे तु हंसो हंसः बको बकः।।

एकमेव पर्याप्तम् – एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।
सहैव दशभिः पुत्रैः भारं वहति रासभी।।

पिक: – काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिक: पिकः।।

चातक वर्णनम् – यद्यपि सन्ति बहूनि सरांसि,
स्वादुशीतलसुरभिपयांसि।
चातकपोतस्तदपि च तानि,
त्यक्त्वा याचति जलदजलानि।।

Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. निम्नलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानामुत्तराणि लिखत-

(क) एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्रेण परितस्तीरवासिना।।

प्रश्न 1.
एकपदेन उत्तरत-
(i) कति राजहंसेन सरसः शोभा भवति?
(ii) केन सरसः शोभा भवति?
उत्तराणि:
(i) एकेन
(ii) राजहंसेन

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
केन सरसः शोभा न भवति?
उत्तराणि:
परितः तीरवासिना बकसहस्रेण सरसः शोभा न भवति।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘एकेन राजहंसेन’ अनयोः पदया: विशेषणपदं किमस्ति?
(ii) श्लोकस्य ‘शोभा’ इति कर्तृपदस्य क्रियापदं किम्?
(iii) श्लोके ‘सा’ इत्यस्य विशेषणस्य विशेष्यः कः?
उत्तराणि:
(i) एकेन
(ii) भवेत्
(iii) शोभा

(ख) भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राजहंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

प्रश्न 1.
एकपदेन उत्तरत-
(i) राजहंसः कां भुनक्ति?
उत्तराणि:
(i) मृणालपाटलीम्, नलिनानि

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
कः सरोवरस्य कृतोपारकः भवति?
उत्तराणि:
राजहंसः सरोवरस्य कृतोपकारकः भवति।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘यत्र भवता मृणालपाटली भुक्ता’। अत्र कर्तृपदं किम्?
(क) यत्र
(ख) भवता
(ग) भुक्ता
(घ) मृणालपाटली
उत्तराणि:
(ख) भवता

(ii) श्लोके ‘केन कृत्येन’ अतयोः पदयोः विशेषणपदं किमस्ति?
(क) केन
(ख) किम्
(ग) कृत्येन
(घ) कृत्यम्
उत्तराणि:
(क) केन

(iii) अस्मिन् श्लोके ‘जलानि’ पदस्य कः पर्यायः आगतः?
(क) नलिनानि
(ख) निपीतानि
(ग) अम्बूनि
(घ) निषेवितानि
उत्तराणि:
(ग) अम्बनि

(ग) तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारा,
धारासारानपि विकिरता विश्वतो वारिदेन॥

प्रश्न 1.
एकपदेन उत्तरत-
(i) कः भीमभानौ निदाघे तरोः पुष्टिम् व्यरचयति?
(ii) मालाकारः कति जलैः तरोः पुष्टिं करोति?
उत्तराणि:
(i) मालाकारः
(ii) अल्पैः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
वारिदेन का कर्तम् न शक्या अस्ति?
उत्तराणि:
वारिदेन इह जनयितुं पुष्टिं कर्तुं न शक्या अस्ति।

प्रश्न 3.
भाषिककार्यम्-
(i) श्लोके ‘तोयैः’ इति विशेष्य पदस्य विशेषणं किमस्ति?
(ii) ‘भवता करुणया अस्य ….’ अत्र ‘भवता’ पदं कस्मै आगतम्?
(iii) अस्मिन् श्लोके वृक्षस्य’ इति पदस्य कः पर्यायः आगतः?
उत्तराणि:
(i) अल्पैः
(ii) मालाकाराय
(ii) तरोः

(घ) आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

प्रश्न 1.
एकपदेन उत्तरत-
(i) परितः पतङ्गाः कुत्र (कम्) आपेदिरे?
(ii) के रसालमुकुलानि समाश्रयन्ते?
उत्तराणि:
(i) अम्बरपथम्
(ii) भृङ्गाः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
सरः सङ्कोचम् अञ्चति कः कतमां गतिम् अभ्युपैतु?
उत्तराणि:
सर: सङ्कोचम् अञ्चति दीनदीनः मीनः कतमां गतिम् अभ्युपैतु।

प्रश्न 3.
भाषिक कार्यम-
(i) श्लोके ‘कतमा गतिम्’ पदयोः कः विशेष्यः वर्तते?
(क) गतिः
(ख) कतमा
(ग) कतमा
(घ) गतिम्
उत्तराणि:
(घ) गतिम्

(ii) अत्र श्लोके ‘आपेदिरे’ इति क्रियायाः कर्तृपदं किम्?
(क) परितः
(ख) पतङ्गाः
(ग) अम्बरपथम्
(घ) पथम्
उत्तराणि:
(ख) पतङ्गाः

(iii) ‘सरः त्वयि सङ्कोचम्’। अत्र ‘त्वयि’ पदं कस्मै आगतम्?
(क) सरसे
(ख) मीनाय
(ग) भृङ्गेभ्यः
(घ) पतङ्गेभ्यः
उत्तराणि:
(क) सरसे

(ङ) एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

प्रश्न 1.
एकपदेन उत्तरत-
(i) चातकः कीदृशः खगः वर्तते?
(ii) कः वने वसति?
उत्तराणि:
(i) मानी
(ii) चातक:

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
कीदृशः चातक: म्रियते?
उत्तराणि:
पिपासितः चातक: म्रियते।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘मानी’ इति विशेषणस्य कः विशेष्य श्लोके आगतोऽस्ति?
(ii) श्लोके ‘म्रियते’ इत्यस्य क्रियापदस्य कर्तृपदं किम्?
(iii) अत्र श्लोके ‘नश्यति’ इत्यस्य कः पर्यायः आगतः?
उत्तराणि:
(i) खगः
(ii) चातकः
(iii) म्रियते

(च) आश्वास्य पर्वतकुलं तपनोष्णतप्त-
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

प्रश्न 1.
एकपदेन उत्तरत-
(i) अस्मिन् श्लोके कं संबोधनं कृतम्?
(ii) जलदः कीदृशं पर्वतकुलम् आश्वासयति?
उत्तराणि:
(i) जलदम्
(ii) तपनोष्णतप्तम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
जलदः कानि पूरयित्वा स्वयं रिक्तो भवति?
उत्तराणि:
जलद: नानानदीनदशतानि पूरयित्वा स्वयं रिक्तो भवति।

प्रश्न 3.
भाषिककार्यम्-
(i) श्लोके ‘सा’ पदं कस्मै आगतम्?
(क) श्रियै
(ख) उत्तमाय
(ग) जलदाय
(घ) काननेभ्यः
उत्तराणि:
(क) श्रियै

(ii) अत्र श्लोके ‘पर्वतकुलम्’ इत्यस्य विशेष्यस्य विशेषणपदं किम्?
(क) तप्तम्
(ख) उष्णम्
(ग) तपनोष्णतप्तम्
(घ) तपनम्
उत्तराणि:
(ग) तपनोष्णतप्तम्

(iii) ‘असि तव सा एव।’ अत्र ‘तव’ पदं के प्रति सङ्केतयति?
(क) जलदम्
(ख) श्रियम्
(ग) पर्वतकुलम्
(घ) काननम्
उत्तराणि:
(क) जलदम्

(छ) रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता-
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥

प्रश्न 1.
एकपदेन उत्तरत-
(i) अस्मिन् श्लोके कविः कं सम्बोधयति?
(ii) के वृष्टिभिः वसुधाम् आर्द्रयन्ति?
उत्तराणि:
(i) चातकम्
(ii) अम्भोदाः

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
गगने हि बहवः के सन्ति?
उत्तराणि:
गगने हि बहवः अम्भोदाः सन्ति।

प्रश्न 3.
भाषिककार्यम्-
(i) ‘त्वं दीनं वचः मा ब्रूहि’। अत्र क्रियापदं किम्?
(ii) बहव अम्भोदाः’ अनयोः पदयोः विशेषणपदं किम्?
(iii) श्लोके ‘समक्षम्’ इत्यस्य पदस्य कः पर्यायः आगतोऽस्ति?
उत्तराणि:
(i) ब्रूहि
(ii) बहवः
(iii) पुरतः

2. अधोलिखितानां श्लोकानाम् अन्वयं मञ्जूषायाः उचितैः पदैः सम्पूर्य लिखत-

(क) एकेन राजहंसेन या शोभा सरसो भवेत्।
ङ्केन स बकसहस्त्रेणा पारितास्तीरशासिता।।

अन्वयः
एकेन (i) _______ सरस: या (ii) _______ भवेत्। परति: (iii) _______सहस्रेण (iv) _______ (शोभा) न (भवति)।
मञ्जूषा- शोभा, सा, राजहसेन, तीरवासिना
उत्तराणि:
(i) राजहंसेन
(ii) शोभा
(iii) तीरवासिना
(iv) सा

(ख) भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राहजंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः।।
अन्वयः
(रे राजहंस!) यत्र भवता (i) _______ भुक्ता, अम्बूनि निपीतानि (ii) _______ निषेवितानि। रे राजहंस! तस्य (iii) _______ (भवतः) केन कृत्येन (iv) _______ भविता असि, वद।
मञ्जूषा- सरोवरस्य, मृणालपटली, कृतोपकारः, नलिनानि
उत्तराणि:
(i) मृणालपटली
(ii) नलिनानि
(iii) सरोवरस्य
(iv) कृतोपकारः

(ग) तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

अन्वयः
हे मालाकार! (i) _______ निदाघे अल्पैः तोयैः अपि भवता (ii) _______ अस्य तरोः या पुष्टिः व्यरचि। वाराम् (ii) _______ विश्वतः धारासारान् अपि विकिरता (iv) _______ इह जनयितुम् सा कि शक्या?
मञ्जूषा- वारिदेन, करुणया, भीमभानौ, प्रावृषेण्येन
उत्तराणि:
(i) भीमभानौ
(ii) करुणया
(iii) प्रावृषेण्येन
(iv) वारिदेन

(घ) आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमा गतिमभ्युपैतु॥

अन्वयः
पतङ्गाः परतिः (i) _______ आपेदिरे, (ii) _______ रसालमुकुलानि सामश्रयन्ते। सर: (iii) _______ ङ्कोचम् अञ्चति, हन्तः (iv) _______ मीनः न कतमा गतिम् अभ्युपैतु।
मञ्जूषा- अम्बरपथम, दीनदीनः माणात्वयि
उत्तराणि:
(i) अम्बरपथम्
(ii) भृङ्गाः
(iii) त्वयि
(iv) दीनदीनः

(ङ) एक एव खगो मानी वने वसति चातकः।
पिपासितो वा प्रियते याचते वा पुरन्दरम्॥

अन्वयः
एकः एव (i) _______ खगः चातकः (ii) _______ वसति। वा (iii) _______ म्रियते (iv) _______ याचते वा।
मञ्जूषा- वने, पिपासितः, मानी, पुरन्दरम्
उत्तराणि:
(i) मानी
(ii) वने
(iii) पिपासितः
(iv) पुरन्दरम्

(च) आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः।।

अन्वयः
(i) _______ पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि (ii) _______ नानानदीनदशतानि (iii) _______ चहे जलद! यत् रिक्त असि तव सा एव (iv) _______ श्री: (अस्ति)।
मञ्जूषा- काननानि, तपनोष्णतप्तम्, उत्तमा, पूरयित्वा
उत्तराणि:
(i) तपनोष्णतप्तम्
(ii) काननानि
(ii) पूरयित्वा
(iv) उत्तमा

(छ) रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥

अन्वयः
रे रे मित्र चातक! (i) _______ क्षणं श्रृयताम् गगने हि बहवः (ii) _______ सन्ति, सर्वे अपि एतादृशाः न (सन्ति)। केचिद् (iii) _______ वृष्टिभिः आर्द्रयन्ति, केचित् (च) वृथा गर्जन्ति, यं यम् पश्यसि तस्य तस्य (iv) _______ दीनं वचः मा ब्रूहि।।
मञ्जूषा- पुरतः, अम्भोदाः, सावधानमनसा, वसुधां
उत्तराणि:
(i) सावधानमनसा
(ii) अम्भोदा:
(iii) वसुधां
(iv) पुरतः

3. निम्नलिखितानि श्लोकानि पठित्वा मञ्जूषायाः सहायतया तेषां भावपूर्तिं कृत्वा लिखत-

(क) एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्रेण परितस्तीरवासिना॥

भावार्थ:
अस्य भावोऽस्ति यत् सरसः या (i) _______ एकेन राजहंसेन भवति सा एव शोभा तस्य तीरे वसता (ii) _______ अपि न भविष्यति तथैव एकेनापि (iii) _______ समाजस्य देशस्य वा या शोभा भवति सा तु (iv) _______ अपि भवितुं कदापि न शक्नोति।
मञ्जूषा- मूर्खसहस्रेण, शोभा, बकसहस्रेण, सज्जनेन (विदुषा)
उत्तराणि:
(i) शोभा
(ii) बकसहस्रेण
(iii) सज्जनेन (विदुषा)
(iv) मूर्खसहस्रेण

(ख) भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राहजंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

भावार्थ:
अस्य भावोऽस्ति यत् हे राजहंस! भवता यत्र कमलनालानां समूहं खादितम् (i) _______ च पीतानि एवं कमलानि अपि सेवितानि। त्वमेव वद तस्य (ii) _______ केन प्रकारेण प्रत्युकारं करिष्यसि अर्थात् स्व जन्मनः देशस्य जाते:, धर्मस्य (iii) _______ च केन रूपेण ऋणम् अवतारयिष्यसि अत: एतेषां सर्वेषां (iv) _______ कुरु।
मञ्जूषा- सम्मानं, जलानि, सरोवरस्य, संस्कृतेः
उत्तराणि:
(i) जलानि
(ii) सरोवरस्य
(iii) संस्कृतेः
(iv) सम्मान

(ग) तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन॥

भावार्थ:
अर्थात् हे मालाकार। त्वम् भीषणतया ग्रीष्मतौं (i) _______ तपति सति अल्पेन जलेन या सेवा भवता अस्य (ii) _______ पोषणार्थं कृता किं सा एव सेवा (iii) _______ परितः धारासु प्रवाहते जलैः वारिदेन अपि कर्तुं सक्षमेन भूयते? अर्थात् मानवजीवनं केवलं सुखैरेव न प्रवर्धते तदर्ध दुःखमपि तथैव अनिवार्य वर्तते यथा सुखम् अस्ति। सुखदुःखम् तु मानवजीवनस्य द्वौ (iv) _______ इव वर्तते?
मञ्जूषा- वृक्षस्य, स्कन्धौ, भानौ, वर्षाकाले
उत्तराणि:
(i) भानौ
(ii) वृक्षस्य
(iii) वर्षाकाले
(iv) स्कन्धौ

(घ) आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

भावार्थ:
खगाः ग्रीष्मतौं सर्वतः आकाशमार्ग (i) _______ भ्रमराः अपि आम्र मञ्जरी: आश्रिताः अभवन्। अतः सरोवरे (ii) _______ भवति सति मत्स्याः निराश्रिताः भूत्वा कुत्र (iii) _______ ग्रहीष्यन्ति अर्थात् कुत्रापिन। मत्स्याः स्वाश्रयस्य सरोवरस्य दुर्दिने आगते अपि ते (iv) _______ कदापि न त्यक्ष्यन्ति। एतदेव सन्मित्रस्य लक्षणं वर्तते।
मञ्जूषा- प्राप्नुवन्ति, तम्, निर्जले, आश्रयम्
उत्तराणि:
(i) प्राप्नुवन्ति
(ii) निर्जले
(iii) आश्रयम्
(iv) तम्

(ङ) एक एव खगो मानी वने वसति चातकः।
पिपासितो वा म्रियते याचते वा पुरन्दरम्॥

भावार्थ:
स्वाभिमानी खगः (i) _______ वने उषित्वा (ii) _______ एव मृत्युम् आ. प्नोति अथवा मेघ स्वात्मने वर्षायाः जलं याचते। सः कदापि (iii)
_______ जलं न पिबति। एवमेव स्वाभिमानी जनोऽपि स्व सम्मानेन मर्यादितेन जीवनेन सह एव जीवनं याषयन्ति ते कदापि स्वजीवनाय (iv) _______ मर्यादाञ्च न त्यजन्ति। अनेन गुणेनैव ते अमराः भवन्ति।
मञ्जूषा- आत्मसम्मानं, धरायाः, चातकः, पिपासितः
उत्तराणि:
(i) चातक:
(ii) पिपासितः
(iii) धरायाः
(iv) आत्मसम्मान

(च) आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

भावार्थ:
सूर्यस्य प्रकाशेन संतप्त (i) _______ तृप्तं कृत्वा, उच्चैः वृक्षः रहितानि वनानि च तृप्तानि कृत्वा नाना नदीः शतानि (ii) _______ पूरयित्वा अपि यदि जलदः रिक्तोऽवर्तन एन्ततु तस्य उदारता (iii) _______ वा भवति। एवमेव सज्जनाः अपि महादानीनाः इव सर्वस्वं दानं कृत्वा (iv) _______ भवन्ति। इयमेव तेषां शोभा वर तते।
मञ्जूषा- शोभा, पर्वतसमूह, अतृप्ताः, नदान्
उत्तराणि:
(i) पर्वतसमूह
(ii) नदान्
(ii) शोभा
(iv) अतृप्ताः

(छ) रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता
‘मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः।।

भावार्थ:
अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वासि (i) _______ अवधीयताम् यतः गगने अनेके बद्दलाः सन्ति परन्तु तेषु सर्वे स्व (ii) _______ धरा न तर्पयन्ति अपितु केचिदेव वर्षन्ति केचित्त वृथा एव गर्जन्ति। अतः यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्ने स्वदीनं वचः मा (iii) _______ एवमेव संसारेऽपि अनेके जनाः सन्ति ते सर्वे स्वमित्राणां सहाय्यं न कुर्वन्ति अतः (iv) _______ अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्मान समाप्यते जर्गात हास्य च भवति।
मञ्जूषा- ब्रूहि, सर्वेषाम्, श्रुत्वा, वर्षाभिः
उत्तराणि:
(i) श्रुत्वा
(ii) वर्षाभिः
(iii) ब्रूहि
(iv) सर्वेषाम्

4. निम्नवाक्येषु रेखाकितानां पदानां स्थानेषु प्रश्नवाचकं पदं चित्वा लिखत-

(क) एकेन एव राजहंसेन सरसः या शोभा भवेत्।
(i) कः
(ii) कति
(iii) कस्य
(iv) किम्
उत्तराणि:
(iii) कस्य

(ख) न सा परितः तीरवासिना बकसहस्रेण भवेत्।
(i) कथम्
(ii) केण
(iii) केन
(iv) कीदृशेण
उत्तराणि:
(iii) केन

(ग) हे राजहंस! भवता मृणालपटली भुक्ता।
(i) का
(ii) का:
(iii) क:
(iv) किम्
उत्तराणि:
(i) का

(घ) एवं नलिनानि अनेकानि निषेविहानि।
(i) के
(ii) कति
(iii) किम्
(iv) कानि
उत्तराणि:
(iv) कानि

(ङ) तस्य सरोवरस्य केन कृत्येन कृतोपकारः त्वं भवितासि?
(i) कीदृशः
(ii) कः
(iii) का
(iv) कथम्
उत्तराणि:
(i) कीदृशः

(च) मालाकार! भवता करुणया तरोः अस्य तोयैरल्पैरपि पुष्टिः व्यरचि।
(i) का
(ii) कः
(iii) केन
(iv) काः
उत्तराणि:
(iii) केन

(छ) भवता भीमभानौ निदाघे करुणया पुष्टिः व्यरचि।
(i) कदा
(ii) कीदृशः
(iii) कौ
(iv) कीदृशौ
उत्तराणि:
(i) कदा

(ज) प्रावृषेण्येन वारिदेन वाराम् विश्वतः इह जनयितुं शक्या।
(i) केन
(ii) कीदृशेन
(iii) कथम्
(iv) कदा
उत्तराणि:
(ii) कीदृशेन

(झ) पतङ्गाः परितः अम्बरपथं आपेदिरे।
(i) के
(ii) काः
(iii) क:
(iv) का
उत्तराणि:
(i) के

(ञ) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(i) किम्
(ii) कानि
(iii) के
(iv) कति
उत्तराणि:
(ii) कानि

(ट) सरः त्वयि दीनदीनः सङ्कोचम् अञ्चति।
(i) कति
(ii) कानि
(iii) कस्मै
(iv) कस्मिन्
उत्तराणि:
(iv) कस्मिन्

(ठ) मीनः नु कतमां गतिम् अभ्युपैतु।
(i) का
(ii) क:
(iii) के
(iv) किम्
उत्तराणि:
(ii) क:

(ड) चातक: मानी खगः भवति।
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) कीदृशा
उत्तराणि:
(i) कीदृशः

(ढ) एकः चातक: वने वसति।
(i) कः
(ii) का
(iii) कति
(iv) किम्
उत्तराणि:
(iii) कति

(ण) चातक: पिपासितः एव म्रियते।
(i) कीदृशः
(ii) कीदृशी
(iii) कीदृशम्
(iv) कीदृशाः
उत्तराणि:
(i) कीदृशः

5. रेखाकितानां पदानां स्थाने प्रश्नवाचकं पदं लिखत-

(क) परं धरायाः जलं न पिबति।
(ख) सः चातक: पुरन्दरं जलं याचते।
(ग) तपनोष्णतप्तम् पर्वतकुलम आश्वास्य।
(घ) जलद: रिक्तः भवति।
(ङ) उद्दामदावविधुराणि काननानि च आश्वास्यपि जलदः रिक्तः भवति।
(च) सा एव तस्य जलदस्य उत्तमा श्री: वर्तते।
(छ) चातक! सावधानमनसा क्षणं श्रूयताम्।
(ज) गगने बहवः अम्भोदाः सन्ति।
(झ) परं सर्वेऽपि एतादृशाः नसन्ति।
(ञ) केचिद् वृष्टिभिः वसुधाम् आद्रियन्ते।
(ट) केचिद् वृथा गर्जन्ति।
(ठ) त्वं यं यं पश्यसि।
(ड) तस्य तस्य पुस्तः दीनं वचः मा ब्रूहि।
(ढ) भवता अस्य तरोः या पुष्टिः कृता।
(ण) भृङ्गाः रसालस्य मुकुलानि समाश्रयन्ते।
उत्तराणि:
(क) कस्याः
(ख) कम्
(ग) कम्
(घ) कीदृशः
(ङ) कः
(च) का
(छ) कथम्/केन
(ज) कति
(झ) के
(ञ) काभिः
(ट) कथम्
(ठ) कः
(ड) किम्
(ढ) कस्य
(ण) कस्य

6. निम्न वाक्येषु रेखाकितानां पदानां पर्यायं लिखत-

(क) एकेन राजहंसेन या शोभा सरसः भवेत्।
(i) नद्याः
(ii) सागरस्य
(ii) तडागस्य
(iv) कूपस्य
उत्तराणि:
(ii) तडागस्य

(ख) भवता मृणालपटली भुकता।
(i) कमलस्य
(ii) फलस्य
(iii) पुष्पस्य
(iv) पादपय
उत्तराणि:
(i) कमलस्य

(ग) निपीतानि अम्बूनि भवता।
(i) जलम्
(ii) जलानि
(iii) रसानि
(iv) फलानि
उत्तराणि:
(ii) जलानि

(घ) भवता या अस्य तरोः पुष्टिः व्यरचि।
(i) बीजस्य
(ii) पादपस्य
(iii) वृक्षस्य
(iv) छायाया:
उत्तराणि:
(ii) वृक्षस्य

(ङ) धारासारानपि विकिरता विश्वतो वारिदेन।
(i) देहेन
(ii) वृक्षण
(iii) जलेन
(iv) मेघेन
उत्तराणि:
(iv) मेघेन

(च) पतङ्गा परितः अम्बरपथम् आपेदिरे।
(i) जनाः
(ii) खगाः
(iii) पशवः
(iv) कीटाः
उत्तराणि:
(ii) खगाः

(छ) भृङ्गा रसालमुकुलानि समाश्रयन्ते।
(i) खगाः
(ii) जनाः
(iii) पशवः
(iv) भ्रमराः
उत्तराणि:
(iv) भ्रमराः

(ज) सङ्कोचमञ्चति सरस्त्वयि दीनदीनो।
(i) आश्रितः
(ii) निराश्रितः
(iii) आश्रयः
(iv) निराश्रयः
उत्तराणि:
(ii) निराश्रितः

(झ) एकः एव खगः मानी वने वसति चातकः।
(i) मानयुक्तः
(ii) सम्मानम्
(iii) अभिमानी
(iv) प्रमाणी
उत्तराणि:
(i) मानयुक्तः

(ञ) रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्री:।
(i) मानम्
(ii) स्वाभिमानम्
(iii) शोभा
(iv) अभिमानम्
उत्तराणि:
(iii) शोभा

7. निम्नपदानां विपर्ययपदानि लिखत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Additional Q7
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Additional Q7.1

Leave a Comment

Your email address will not be published.

Patio umbrellas sold at Costco recalled after reports of fires गर्मी में लू लगने से बचाव करेंगे यह खाद्य पदार्थ, आज ही खाना करें शुरू ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22
ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? गर्मी में लू लगने से बचाव करेंगे यह खाद्य पदार्थ, आज ही खाना करें शुरू Rbse books for class 1 to 12 hindi medium 2021-22 Patio umbrellas sold at Costco recalled after reports of fires