Rbse Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी

Shemushi Sanskrit Class 10 Solutions Chapter 8 विचित्रः साक्षी

Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Textbook Questions and Answers

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तराणि:
विजनप्रदेशे

(ख) अतिथि: केन प्रबुद्धः?
उत्तराणि:
पादध्वनिना

(ग) कृशकायः कः आसीत्?
उत्तराणि:
अभियुक्तः

(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
उत्तराणि:
आरक्षिणे

(ङ) कं निकषा मृतशरीरम् आसीत्?
उत्तराणि:
राजमार्ग

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तराणि:
निर्धनः जनः भूरि परिश्रम्य वित्तम्, उपार्जितवान्।

(ख) जनः किमर्थं पदाति: गच्छति?
उत्तराणि:
अर्थ कार्येन पीडितः जनः बसयानं विहाय पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तराणि:
प्रसूते निशान्धकारे सः अचिन्तयत् – ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’।

(घ) वस्तुतः चौरः कः आसीत्?
उत्तराणि:
वस्तुतः आरक्षी चौरः आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तराणि:
जनस्य क्रन्दनं क्षुत्वा (निशम्य) आरक्षी उक्तवान्- “रे दुष्ट! तास्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारिता। इदानीं निजकृत्यस्य फलं भुक्ष्व अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे”।

(च) मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तराणि:
मतिवैभवशालिनः दुष्कराणि कार्याणि नीति युक्तिं समालम्ब्य लीलया एव साधयन्ति।

प्रश्न 3.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) पुत्र द्रष्टुं सः प्रस्थितः।
उत्तराणि:
कम्

(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।
उत्तराणि:
कस्मै

(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
उत्तराणि:
कस्य

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
उत्तराणि:
कः

(ङ) स भारवेदनया क्रन्दति स्म।
उत्तराणि:
कया

(च) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तराणि:
कुत्र

प्रश्न 4.
यथानिर्देशमुत्तरत-

(क) ‘आदेश’ प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
उत्तराणि:
उभौ

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?
उत्तराणि:
अध्वनि

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तराणि:
निर्धनजनाय

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
उत्तराणि:
आदिष्टवान्

(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?
उत्तराणि:
कर्माणि

प्रश्न 5.
संन्धि/सन्धिविच्छेदं च कुरुत-

(क) पदातिरेव – ________ + _________
(ख) निशान्धकारे – ________ + _________
(ग) अभि + आगतम् – ________
(घ) भोजन + अन्ते – ________
(ङ) चौरोऽयम् – ________ + _________
(च) गृह + अभ्यन्तरे – ________
(छ) लीलयैव – ________ + _________
(ज) यदुक्तम् – ________ + _________
(झ) प्रबुद्धः + अतिथि: – ________
उत्तराणि:
(क) पदातिरेव – पदातिः + एव
(ख) निशान्धकारे – निशा + अन्धकारे
(ग) अभि + आगतम् – अभ्यागतम्
(घ) भोजन + अन्ते – भोजनान्ते
(ङ) चौरोऽयम् – चौरः + अयम्
(च) गृह + अभ्यन्तरे – गृहाभ्यन्तरे
(छ) लीलयैव – लीलया + एव
(ज) यदुक्तम् – यत् + उक्तम्
(झ) प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि:

प्रश्न 6.
अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Q6
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Q6.1

प्रश्न 7(अ).
अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।
(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।
(ग) कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।
(घ) अन्येयुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।
उत्तराणि:
(क) ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
(ख) चौराः ग्रामेषु/ग्रामे नियुक्ताः राजपुरुषाः आसन्।
(ग) केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।
(घ) अन्येयुः ते न्यायालये स्व-स्व पक्षान् स्थापितवन्तः।

प्रश्न 7(आ).
कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) सः ________ निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
(ख) गृहस्थः ________ आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
(ग) तौ ________ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
(घ) ________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)
(ङ) चौरस्य ________ प्रबुद्धः अतिथिः। (पादध्वनि शब्दे तृतीया)
उत्तराणि:
(क) गृहात्
(ख) अतिथये
(ग) न्यायाधिकारिणं
(घ) अस्मिन्
(ङ) पादध्वनिना

योग्यताविस्तारः
यह पाठ श्री ओमप्रकाश ठाकुर द्वारा रचित कथा का सम्पादित अंश है। यह कथा बंगला के प्रसिद्ध साहित्यकार बंकिमचन्द्र चटर्जी द्वारा न्यायाधीश-रूप में दिये गये फैसले पर आधारित है। सत्यासत्य के निर्णय हेतु न्यायाधीश कभी-कभी ऐसी युक्तियों का प्रयोग करते हैं जिससे साक्ष्य के अभाव में भी न्याय हो सके। इस कथा में भी विद्वान् न्यायाधीश ने ऐसी ही युक्ति का प्रयोग कर न्याय करने में सफलता पाई है।

(क) विचित्रः साक्षी
न्यायो भवति प्रमाणाधीनः। प्रमाणं विना न्यायं कर्तुं न कोऽपि क्षमः सर्वत्र। न्यायालयेऽपि न्यायाधीशाः यस्मिन् कस्मिन्नपि विषये प्रमाणाभावे न समर्थाः भवन्ति। अतएव, अस्मिन् पाठे चौर्याभियोगे न्यायाधीशः प्रथमतः साक्ष्यं (प्रमाणम्) विना निर्णतुं नाशक्नोत्। अपरेयुः यदा स शवः न्यायाधीशं सर्वं निवेदितवान् सप्रमाणं तदा सः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्। अस्य पाठस्य अयमेव सन्देशः।

(ख) मतिवैभवशालिनः
बुद्धिसम्पत्तिसम्पन्नाः। ये विद्वांसः बुद्धिस्वरूपविभवयुक्ताः ते मतिवैभवशालिनः भवन्ति। ते एव बुद्धिचातुर्यबलेन असम्भवकार्याणि अपि सरलतया कुर्वन्ति।

(ग) स शवः
न्यायाधीश बंकिमचन्द्रमहोदयैः अत्र प्रमाणस्य अभावे किमपि प्रच्छन्नः जनः साक्ष्य प्राप्तुं नियुक्तः जातः। यद् घटितमासीत् सः सर्वं सत्यं ज्ञात्वा साक्ष्य प्रस्तुतवान्। पाठेऽस्मिन् शवः एव ‘विचित्रः साक्षी’ स्यात्।

भाषिकविस्तारः
उपार्जितवान् – उप + √अर्ज् + तवतु
दापयितुम् – √दा + णिच् + तुमन्

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Q7

Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. अधोलिखितं गद्याशं पठित्वा निर्देशानुसार प्रश्नान् उत्तरत-

(क) कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडित: स बसयानं विहाय पदातिरेव प्राचलत्।

पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।’ एवं विचार्य स पावस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) कीदृशः जनः परिश्रमं करोति?
(ii) सः कम् महाविद्यालये प्रवेशं दापयितुं सफलः जातः?
(iii) निर्धनस्य पुत्रः कुत्र निवसन् अध्ययने संलग्नः समभूत्?
उत्तराणि:
(i) निर्धनम्
(ii) स्वपुत्रम्
(iii) छात्रावासे

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)
(i) रात्रिनिवासं कर्तुम् सः कम् उपागतः?
(ii) कः तस्मै आश्रयं प्रायच्छत्?
उत्तराणि:
(i) सः पावस्थिते ग्रामे रात्रिनिवासम् कर्तुम् कञ्चित् गृहस्थमुपागतः।
(ii) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘निर्धनः जनः’ अत्र विशेषणपदं किम्?
(ii) ‘उपार्जितवान्’ इति क्रियापदस्य कर्तृपदं किम्?
(iii) ‘पिता’ इति कर्तृपदस्य क्रियापदं किमस्ति?
(iv) गद्यांशे ‘अधिकम्’ इत्यस्य पदस्य कः पर्यायः लिखितः?
उत्तराणि:
(i) निर्धन:
(ii) जनः
(iii) प्रस्थितः
(iv) (क) भूरि

(ख) विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेका मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) दैवगतिः कीदृशी अस्ति?
(ii) गृहाभ्यान्तरं कः प्रविष्टः?
(iii) क: उच्चैः क्रोशितुम् आरभत?
उत्तराणि:
(i) विचित्रा
(ii) चौरः
(iii) चौरः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) ग्रामवासिनः किम् अकुर्वन्?
(ii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः किम् अकरोत्?
उत्तराणि:
(i) तस्य नरस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहात् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वा अभर्त्तयन्।
(ii) चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘विचित्रा दैवगतिः’ अत्र विशेषणपदं किम्?
(ii) ‘प्रविष्टः’ इति क्रियापदस्यं कर्तृपदं किम्?
(iii) ‘दिवसे’ इति पदस्य विपर्ययपदं किम् प्रयुक्तम्?
(iv) ‘उच्चस्वरेण’ इत्यस्य पदस्य अत्र कः पर्यायः आगतः?
उत्तराणि:
(i) विचित्रा
(ii) चौर:
(iii) रात्रौ
(iv) तारस्वरेण

(ग) अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः वा उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्व वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येयुः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) न्यायाधीशस्य नाम किमासीत्?
(ii) शवं न्यायालये आनेतुम् कः आदिष्टवान्?
(iii) अग्रिमे दिने कः चौर्याभियोगे तं न्यायालयं नीतवान्?
उत्तराणि:
(i) बंकिमचन्द्रः
(ii) न्यायाधीशः
(iii) आरक्षी

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) कर्मचारी समागत्य कि न्यवेदयत्?
(ii) न्यायाधीशः कं किं च आदिष्टवान्?
उत्तराणि:
(i) कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिन्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते।
(ii) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘नीतवान्’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘अग्रिमे दिने’ अत्र विशेष्यपदं कि प्रयुक्तम्?
(iii) ‘न्यायाधीशः’ इति कर्तृपदस्य क्रियापदम् किम्?
(iv) अनुच्छेदे ‘समीपम्’ इति पदस्य अर्थे किं पदम् आगतम्?
उत्तराणि:
(i) आरक्षी
(ii) दिने
(iii) श्रुतवान्
(iv) निकषा।

(घ) आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चित् उभी शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) आरक्षी कीदृशः आसीत्?
(ii) अभियुक्तः कीदृशः आसीत्?
(iii) सः कथं क्रन्दति स्म?
उत्तराणि:
(i) सुपुष्टदेहः
(ii) कृशकायः
(iii) भारवेदनया

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) अभियुक्तस्य क्रन्दनं श्रुत्वा प्रसन्नः आरक्षी तम् किम् उवाच?
(ii) उभौ कथं प्राचलताम्?
उत्तराणि:
(i) अभियुक्तस्य क्रन्दनं श्रुत्वा प्रसन्नः आरक्षी तम् उवाच-रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रस्य कारादण्ड लप्स्यसे।
(ii) आदेशं प्राप्य उभौ प्राचलताम्।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘प्रस्थितौ’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘सुपुष्टदेहः’ इति पदस्य विपरीतपदं गद्यांशे किम् प्रयुक्तम्?
(iii) ‘एकस्मिन्’ इति विशेषणपदस्य विशेष्यपदं किम्?
(iv) अनुच्छेदे ‘त्वया’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तराणि:
(i) उभौ
(ii) कृशकायः
(iii) चत्वरे
(iv) वारितः

(ङ) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अत: निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) आरक्षी किम् प्रस्तुतवान्?
(ii) न्यायाधीशः कस्याः विषय वक्तम् आदिशति?
(iii) चौरः कस्याः ग्रह्णात् वारितः?
उत्तराणि:
(i) निजपक्षम्
(ii) घटनायाः
(iii) मञ्जूषायाः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) न्यायाधीशेन पुनस्तौ किम् आदिष्टौ?
(ii) एतेन आरक्षिणा मार्गे किम् उक्तम?
उत्तराणि:
(i) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।
(ii) एतेन आरक्षिणा मार्गे उक्तम्-‘त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘निवेदितवान्’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘मार्गे’ इति पदस्य पर्यायपद कि प्रयुक्तम्?
(iii) ‘न्यायाधीशेनः’ इति कर्तृपदस्य क्रियापदं किम्?
(iv) अनुच्छेदे ‘परपक्षम्’ इति पदस्य क: विपर्ययः आगत:?
उत्तराणि:
(i) शवः
(ii) अध्वनि
iii) आदिष्टौ
(iv) निजपक्षम्

2. अधोलिखितं पद्याशं पठित्वा निर्देशानुसार प्रश्नान् उत्तरत-

दुष्कराण्यपि कर्माणि मतिवैभवशालिनः।
नीति युक्तिं समालम्ब्य लीलयैव प्रकुर्वते।।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-
(i) कीदृशाः जनाः दुष्कराणि कर्माणि अपि कुर्वन्ति?
(ii) जनाः दुष्कराणि कर्माणि कथम् कुर्वन्ति?
(iii) का समालम्ब्य मतिवैभवशालिनः कार्याणि कुर्वन्ति?
उत्तराणि:
(i) मतिवैभवशालिनः
(ii) लीलयैव
(iii) नीतिम्/युक्तिम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-
(i) मतिवैभवशालिनः दुष्कराणि कर्माणि कथम् कुर्वन्ति?
(ii) लीलया के कार्याणि कुर्वन्ति?
उत्तराणि:
(i) मतिवैभवशालिनः जनाः दुष्कराणि कर्माणि नीति युक्तिं समालम्ब्य लीलयैव कुर्वन्ति।
(ii) लीलया मतिवैभवशालिनः कार्याणि कुर्वन्ति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-
(i) ‘दुष्कराणि’ इति विशेषणपदस्य विशेष्यपदं किम्?
(ii) ‘प्रकुर्वते’ इति क्रियापदस्य कर्तृपद किम्?
(iii) ‘सुकराणि’ इति पदस्य विपर्ययपदं पद्यांशे किमस्ति?
(iv) श्लोके ‘सरलतया’ पदस्य क: पर्यायः आगतः?
उत्तराणि:
(i) कर्माणि
(ii) मतिवैभवशालिन:
(ii) दुष्कराणि
(iv) लीलया

3. I. वाक्येषु रेखाङ्कितपदानां स्थाने प्रश्नवाचकं पदं प्रयुज्य प्रश्ननिर्माणं कुरुत-

(क) निर्धनः जनः वित्तम् उपार्जितवान्।
(ख) वित्तेन स्वपुत्रम् महाविद्यालये प्रवेशं दापयितुं सफलः जातः।
(ग) छात्रावासे निवसन अध्ययने संलग्नः समभूत्।
(घ) तस्य पिता तनूजस्य रुग्णतामकर्ण्य व्याकुलः अभवत्।
(ङ) सः बसयानं विहाय पदातिरेव प्राचलत्।
(च) विचित्रा दैवगतिः भवति।
(छ) निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
(ज) रात्रिनिवास कर्तुं सः कञ्चिद् गृहस्थमुपागतः।
(झ) रात्री गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(ञ) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(ट) चौरस्य तारस्वरेणं ग्रामवासिनः अपि प्रबुद्धाः।
(ठ) ते सर्वे गृहात् निष्क्रम्य अतिथिमेव चौरं मत्वाऽभवा॒यन्।
(ड) रक्षापुरुषः अतिथिम् कारागृहे प्राक्षिपत्।
(ढ) आरक्षी अतिथिम् न्यायालयं नीतवान्।
(ण) न्यायाधीशः विवरणं श्रुतवान्।
(त) प्रमाणाभावात् न्यायाधीशः निर्णतुं नाशक्नोत्।
(थ) अन्येद्युः तो न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
(द) एकः मृतशरीरं राजमार्ग निकषा वर्तते।
(ध) न्यायाधीशः तं शवं न्यायालये आनेतुमादिष्टवान्।
(न) आरक्षी सुपुष्टदेहः आसीत्।
(प) अभियुक्तः अतीव कृशकायः आसीत्।
(फ) सः भारवेदनया क्रन्दति स्म।
(ब) तस्य क्रन्दनं श्रुत्वा मुदितः आरक्षी तमुवाच।
(भ) उभौ शवम् आनीय चत्वरें स्थापितवन्तौ।
(म) न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।
उत्तराणि:
(क) किम्
(ख) केन
(ग) कस्मिन्
(घ) कस्य
(ङ) किम्
(च) कीदृशी
(छ) कीदृशे
(ज) किम्
(झ) कुत्र
(ज) केन
(ट) के
(ठ) कस्मात्
(ड) कम्
(ढ) कुत्र
(ण) कः
(त) कस्मात्
(थ) कदा
(द) कुत्र
(ध) कुत्र
(न) कीदृशः
(प) कीदृशः
(फ) कया
(ब) कीदृशः
(भ) कम्
(म) केन

II. उचितं पदं चित्वा प्रश्ननिर्माणं कुरुत-

(क) आरक्षिणि निजपक्षं प्रस्तुतवति।
(i) किम्
(ii) कस्मिन्
(iii) कानि
(iv) कस्य
उत्तराणि:
(ii) कस्मिन्

(ख) शवः प्रावारकम् अपसार्य निवेदितवान्।
(i) कम्
(ii) किम्
(iii) कः
(iv) काम्
उत्तराणि:
(ii) किम्

(ग) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।
(i) किम्
(ii) कम्
(iii) काम्
(iv) कति
उत्तराणि:
(ii) कम्

(घ) न्यायाधीशः अतिथिम् ससम्मान मुक्तवान्।
(i) कः
(ii) कम्
(iii) कथम्
(iv) केन
उत्तराणि:
(iii) कथम्

(ङ) मति वैभवशालिनः जनाः दुष्कराणि कर्माणि प्रकुर्वते।
(i) क:
(ii) के
(iii) कीदृशाः
(iv) काः
उत्तराणि:
(iii) कीदृशाः

(च) नीति युक्तिं समालम्ब्य लीलयैव प्रकुर्वते।
(i) कया
(ii) कैव
(iii) किम्
(iv) कुत्र
उत्तराणि:
(i) कया

(छ) अभियुक्तः अतीव कृशकायः आसीत्।
(i) क:
(ii) कीदृशः
(iii) किम्
(iv) कथम्
उत्तराणि:
(ii) कीदृशः

(ज) कश्चित् कर्मचारी समागत्य न्यवेदयत्।
(i) कः
(ii) कीदृशः
(iii) की
(iv) कम्
उत्तराणि:
(i) कः

(झ) अन्येधुः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
(i) के
(ii) कुत्र / कस्मिन्
(iii) कदा
(iv) कदा
उत्तराणि:
(ii) कुत्र / कस्मिन्

(ञ) निशान्धकारे पदयात्रा न शुभावहा।
(i) कुत्र
(ii) कस्मिन्
(iii) का
(iv) कः
उत्तराणि:
(ii) कस्मिन्

(ट) ग्रामस्य आरक्षी एव चौरः आसीत्।
(i) कः
(ii) कस्य
(iii) किम्
(iv) कथम्
उत्तराणि:
(ii) कस्य

(ठ) जनाः वराकम् अतिथिम् चौरं मत्वा भर्त्सयन्।
(i) कम्
(ii) कीदृशम्
(iii) किम्
(iv) कः
उत्तराणि:
(ii) कीदृशम्

(ड) प्रबुद्धाः ग्रामवासिनः स्वगृहात् निष्क्रम्य तत्रागच्छन्।
(i) के
(ii) काः
(iii) कीदृशाः
(iv) कः
उत्तराणि:
(iii) कीदृशाः

(ढ) तत् तनयः पठनाय स्वगृहात् निष्क्रम्य तत्रागच्छन्।
(i) कस्मै
(ii) किमर्थम्
(iii) काय
(iv) कात्
उत्तराणि:
(ii) किमर्थम्

(ण) चौरः एव उच्चैः क्रोशितुमारभत।
(i) कः
(ii) किम्
(iii) कस्मै
(iv) काः
उत्तराणि:
(i) कः

(त) उभौ शवं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ।
(i) कः
(ii) कौ
(iii) किम्
(iv) कथम्
उत्तराणि:
(ii) कौ

(थ) एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि।
(i) कया
(ii) केन
(iii) का
(iv) कीदृशाः
उत्तराणि:
(ii) केन

(द) असौ तौ अग्निमेदिने उपस्थातुम् आदिष्टवान्।
(i) कदा
(ii) कथम्
(iii) कीदृशे
(iv) के
उत्तराणि:
(i) कदा

(ध) भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्।
(i) कथम्
(ii) कम्
(iii) कीदृशम्
(iv) किम्
उत्तराणि:
(iii) कीदृशम्

(न) बकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(i) काभ्याम्
(ii) काम्
(iii) केषाम्
(iv) कीदृशीम्
उत्तराणि:
(i) काभ्याम्

(प) इदानीम् निजकृत्यस्य फलं भुव
(i) कदा
(ii) काम्
(iii) किम्
(iv) कस्याम्
उत्तराणि:
(i) कदा

(फ) सर्वम् वृत्तम् अवगत्य सः तम् निर्दोषम् अमन्यत।
(i) कम्
(ii) किम्
(iii) काम्
(iv) कथम्
उत्तराणि:
(ii) किम्

(ब) इति प्रोच्य आरक्षी उच्चैः अहसत्।
(i) कथम्
(ii) कैः
(iii) के
(iv) कः
उत्तराणि:
(i) कथम्

(भ) पदातिक्रमेण संचलन् सायं अभवत्।
(i) केन
(ii) किमर्यम्
(iii) कम्
(iv) कीदृशम्
उत्तराणि:
(i) केन

(म) तनूजस्य रुग्णतामाकर्ण्य पिता व्याकुल: व्यातः।
(i) कः
(ii) कीदृशः
(iii) कम्
(iv) कथम्
उत्तराणि:
(ii) कीदृशः

4. अधोलिखितस्य श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानानि पूरयत-

दुष्कराष्यपि कर्माणि मतिवैभवशालिनः।
नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते॥

अन्वयः
मति वैभव शालिनः (जना) (i) ________ युक्तिं (ii) ________ दुष्कराणि (iii) ________ कर्माणि (iv) ________ एव प्रकुर्वते।
मञ्जूषा- लीलया, नीति, अपि, समालम्ब्य
उत्तराणि:
(i) नीति
(ii) समालम्ब्य
(iii) अपि
(iv) लीलया

5. अधोलिखितश्लोकस्य भावार्थम् मञ्जूषातः उचितपदानि चित्वा पूरयत-

दुष्कराष्यपि कर्माणि मतिवैभवशालिनः।
नीति युक्तिं समालम्ब्य लीलयैव प्रकुर्वते॥

भावार्थ:
अस्य भावोऽस्ति यत् बुद्धि (i) ________ युक्ताः जनाः उत्तम (ii) ________ युक्तेः च आधार नीत्वा (iii) ________ अपि कार्याणि लीलया एव (iv) ________ तेषु ते कदापि कठिनतामपि न अनुभवन्ति।
मञ्जूषा- प्रकुर्वन्ति, धनेन, कठिनतमानि, नीतेः
उत्तराणि:
(i) धनेन
(ii) नीते:
(iii) कठिनतमानि
(iv) प्रकुर्वन्ति

6. अधोलिखानि वाक्यानि कथाक्रमानुसार पुनः लेखनीयानि-

I. (क) तेन वित्तेन तत्पुत्रम् महाविद्यालये प्रवेशं दापयितुं सफलः जातः।
(ख) तत्र निवसन् अध्ययने संलग्नः समभूत्।
(ग) पिता पुत्रं द्रुष्टुं च प्रस्थितः।
(घ) कश्चन निर्धनः जनः वित्तमुपार्जितवान्।
(ङ) सः बसयानं विहाय पदातिरेव प्राचलत्।
(च) एकदा तस्य पुत्रः रुग्णः अभवत्।
(छ) तत् तनयः छात्रावासे वसति स्म।
(ज) पुत्रस्य रुग्णतामाकर्ण्य सः व्याकुलः सञ्जातः।
उत्तराणि:
(क) कश्चन निर्धनः जनः वित्तमुपार्जितवान्।
(ख) तेन वित्तेन तत्पुत्रम् महाविद्यालये प्रवेशं दापयितुं सफलः जातः।
(ग) तत् तनयः छात्रावासे वसति स्म।
(घ) तत्र निवसन् अध्ययने संलग्नः समभूत्।
(ङ) एकदा तस्य पुत्रः रुग्णः अभवत्।
(च) पुत्रस्य रुग्णतामाकर्ण्य सः व्याकुलः सञ्जातः।
(छ) पिता पुत्रं द्रष्टुं च प्रस्थितः।
(ज) सः बसयानं विहाय पदातिरेव प्राचलत्।

II. (क) सः पुत्रं द्रष्टुम् पदातिरेव प्राचलत्।
(ख) तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(ग) चौरः एव उच्चैः क्रोशितुमारभत।
(घ) कश्चन निर्धनः जनः वित्तम् उपार्जितवान्।
(ङ) रात्रिनिवासं कर्तुम् कञ्चिद् गृहस्थमुपागतः।
(च) एकदा तस्य पुत्रः ताणः जाता:।
(छ) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(ज) ग्रामवासिनः वराकमतिथिमेव चौरं मत्वाऽभर्ल्सयन्।
उत्तराणि:
(क) कश्चन निर्धनः जनः वित्तम् उपार्जितवान्।
(ख) एकदा तस्य पुत्रः रुग्णः जातः।
(ग) सः पुत्रं द्रष्टुम् पदातिरेव प्राचलत्।
(घ) रात्रिनिवासं कर्तुम् कञ्चिद् गृहस्थमुपागतः।
(ङ) तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(च) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(छ) चौरः एव उच्चैः क्रोशितुमारभत।
(ज) ग्रामवासिनः वराकमतिथिमेव चौरं मत्वाऽभर्त्सयन्।

III. (क) तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः।
(ख) न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(ग) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुमादिष्टौ।
(घ) न्यायाधीशः प्रामाणाभावात् निणेतुम् नाशक्नोत्।
(ङ) स शवः प्रावारकमपसार्य न्यायाधीशम् सत्यं निवेदितवान्।
(च) अन्येधुः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
(छ) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।
(ज) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
उत्तराणि:
(क) न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(ख) न्यायाधीशः प्रामाणाभावात् निर्णतुम् नाशक्नोत्।
(ग) अन्येयुः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
(घ) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(ङ) तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः।
(च) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुमादिष्टौ।
(छ) स शवः प्रावारकमपसार्य न्यायाधीशम् सत्यं निवेदितवान्।
(ज) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।

7. अधोलिखितपदानां तेषाम् पर्यायपदैः च मेलनं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q7
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q7.1
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q7.2
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q7.3

8. (अ) विशेषण-विशेष्यपदानि योजयत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q8
उत्तराणि:
(क) (viii), (ख) (vii), (ग) (i), (घ) (ii), (ङ) (iii), (च) (vi), (छ) (iv), (ज) (v)

(आ) संस्कृतेन वाक्यप्रयोगं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q8.1
उत्तराणि:
(क) वृद्धः पिता स्वपुत्रान् कृषिकर्मणः सञ्चलनाय भूयोभूयः प्रेरयति।
(ख) आलसाः पुत्राः शृण्वन्ति।
(ग) अपरः पुत्रः तथैव आदिष्टः।
(घ) एकैकं दण्ड पुत्रेभ्यः दत्तवान्।

9. अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत-
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q9
उत्तराणि:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी Additional Q9.1

Leave a Comment

Your email address will not be published.

ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22
ट्रेन के बीच में ही AC कोच क्यों लगाए जाते हैं? Rbse books for class 1 to 12 hindi medium 2021-22